महाकविः कालिदासस्तु विश्वप्रसिद्ध इति त्वनुक्त्वैव ज्ञायते । यत्र महामहापण्डिताः महामहाग्रन्थानेव विलिख्य गताः, तत्र कोऽहमल्पमतिः कालिदासविषये शब्दमप्युच्चारितुं? अथवा मत्सदृशा अल्पमतिनैव बालिशान् शब्दानुपयुज्य कोलाहलं कर्तुमेवेदृश्यः अन्तर्जालीयपरिषदः सन्तीति मत्वाऽऽत्मानं सान्त्वये ।
कालिदासस्य बह्व्यः दन्तकथाः सन्त्येव । कस्याश्चिदनुसारेण कालिदासः जन्मतो न प्रतिभावान् कविः। सोऽतिमूर्खः कश्चित्सामान्यः ग्रामीणः सन्नेकदा इध्मकाष्ठाय कस्मिंश्चिद्वृक्षे कस्यांश्चिच्छाखायां तिष्ठन् तामेव शाखां छेत्तुमारभत । दैववशात् कश्चित् पार्श्वागन्तुकपुरुषः तं वीक्ष्य तत्क्षणमेव तं प्रबोध्यापायाद्रक्षितवान् । आनुषङ्गिकया, स पुरुषः तद्राज्यस्य महामात्य आसीत् ।
महामात्यस्य पुत्रः राजकुमार्यामनुरक्तः सन् यया कया विधिना तां परिणेतुकामः पितरं प्रेरितवान् । परं यदा महामात्यः राजानमेतद्विषये अभ्यमन्त्रयत्, राजा तु स्वयं कुमारी वरं वृणुते इत्यवदत् । परं सा त्वतीव विद्यासम्पन्नगर्विता नैकमपि पुरुषं स्वसमानं मत्वा न कमपि वृणीते । अवमानितंमन्योऽमात्यः गुह्येन तमवमानं प्रतीकर्तुमुपायं विचचार । अन्ते एवं करोमीति निश्चयं गतः — राजकुमार्याः गर्वभङ्गं साधितुं कश्चिन्मूर्खशिरोमणिः युक्त्या अतिबुद्धिमद्वत् प्रदर्श्य तस्याः सह विवहितः भवति चेत्, राजकुमारी सर्वदा विनश्यतीति ।
अस्योपायस्य निर्वाहहेतुकोऽभवदस्माकं भविष्यत्कालिदासः । यदा राजकुमारी मूर्खं परीक्षितुं प्रश्नान् करोति स्म, प्रच्छन्न अमात्यः गुह्येन मूर्खायोत्तराणि ददाति स्म । अन्ते राजकुमारी मूर्खस्य ज्ञानं प्रशंस्य तं पतिं वृणोति स्म ।
किञ्चित्कालं सर्वं सौख्येन प्रचलितमासीत् । तत एकदा मूर्खः पतिः उष्ट्रं दृष्ट्वा “उट्र” “उट्र” इत्यवदत् । तच्छ्रुत्वा राजकुमारी अतिविभ्रमिताभवत् । किमयं मे पतिः सुपण्डितः सन्नेतावदपण्डितवद्वदतीति । पुनःपुनः परिशीलनानन्तरं पतिः मूर्ख इति निश्चयं गता दुःखार्ता राजकुमारी स्वां वञ्चितामभिज्ञाय किमिदानीं कर्तव्यमिति सुदीर्घं चिन्तिता । वञ्चकैः पराभवं न भवेदिति सुदृढनिश्चयेन सा पतिं बुद्धिमन्तं कर्तुं तं भगवतीं कालीमुपासितुं प्राचोदयत् । सोऽपि राजकुमारीं प्रति प्रीतिमापन्नः तस्याः दुःखनिवारणार्थं महत्प्रयत्नं कर्तव्यमेव हीति निर्धार्य कस्मिंश्चिन्निर्जनप्रदेशे स्थितं कालीमन्दिरं गत्वा तत्र स्थात्वा चिरकालं देव्या उपासनं कृतवान् ।
मासाः व्यतीताः, वर्षाण्यपि व्यतीतानि । अन्ते तपोतुष्टा देवी तस्मै प्रादुर्भूत्वा वरं वृणीष्वेति कथिता । (अत्र कथायां द्वितीयो भेदः विद्यते यत् राजकुमार्युपदेशानुसारेण मूर्खः कालीमन्दिरं गत्वा यदा देवी संचाराय रात्रौ बहिर्गच्छति तदा मन्दिरद्वारान् अन्तरतो बद्ध्वा देवीमेवावरुध्य वरं बलाद्याचितवानिति । मह्यं तु प्रथमं कथनं रोचते, न द्वितीयं।) मां विद्यावन्तं बुद्धिमन्तं कलावन्तं प्रतिभान्वितं करोत्विति ययाचे । तस्यास्तथेत्युक्तिसत्वरमेव तस्य मुखादपूर्वसौन्दर्यभरितानि स्तुतिपद्यानि निःसृतानि । एतान्येव “श्यामलादण्डकम्” इति स्तोत्रेण प्रसिद्धानि —
“माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासां ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥
चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुंकुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥”
इत्यादीनि । सम्पूर्णं स्तोत्रमत्र प्राप्यते — https://sanskritdocuments.org/do...
अस्मिन् चलच्चित्रे अस्य सन्दर्भस्य अत्यद्भुतं निरूपणं कृतमस्ति —
एतद्दृष्ट्वा रोमाञ्चनश्च बाष्पेक्षणश्च भवामि प्रतिवारम् !!
तदनन्तरं सः कालिदास इति नाम धृत्वा गृहमागच्छति । पत्नीं राजकुमारीं सुसंस्कृतभाषया आह्वयत्येतैः शब्दैः — “प्रिये ! अनावृतकपाटं द्वारं देहि !” इति । तच्छ्रुत्वा पतिरित्यनभिज्ञायैव सा प्रतिवदति — “अस्ति कश्चिद्वाग्विशेषः !” इति ।
अनन्तरं कालिदासः एतानि पदान्युद्धृत्य त्रयाणां काव्यानामादिमपदरूपेणोपयुयुजे । यथा —
“अस्ति” इति पदेन “कुमारसम्भव” महाकाव्यस्यादिमं पद्यम् निर्व्यूढम् —
“अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्यामिव मानदण्डः ॥”
“कश्चित्” इति पदेन “मेघदूत” काव्यमारब्धम् —
“कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥”
“वाक्” इति पदेन “रघुवंश” महाकाव्यमारब्धम् —
“वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥”
कालिदासस्य वैशिष्ट्यं तस्य सौन्दर्यसूक्ष्मेक्षिका इति मे मतिः । विशेषतः प्रकृतिसौन्दर्यस्य सूक्ष्मविस्तारवर्णनं नान्यः कविः कालिदासरीत्या कर्तुं समर्थः । भाषाप्रयोगास्त्वपूर्वसौन्दर्यभरिताः सन्ति । उदाहरणाय —
१ — अभिज्ञानशाकुन्तलनाटके दुष्यन्तस्य मृगानुसरणसन्दर्भे मृगस्य वर्णनमतिरमणीयमस्ति —
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायं ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥
२ — मेघदूतकाव्ये, एकपक्षे कविः यक्षस्य ध्वनिना वदति, अपरपक्षे यक्षं दूरे स्थित्वा निरीक्ष्य विश्लेषयति —
धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥
कालिदासस्य प्रशंसापद्यानि
अत्रापि नास्ति किञ्चिन्नवीनं निवेदनीयमनिवेदितं पण्डितैः । तर्हि केवलमात्मसन्तुष्ट्यर्थं क्रियतेऽयं शब्दव्यापारः ।
१ — उपमालङ्कारराजोऽसौ कालिदासः । तत्रैकः श्लोको भवति —
“उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥”
२ — चमत्कारपद्यमेकमस्ति —
“पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥”
३ — जयदेवविरचितं संस्कृतकवीनां वर्णयितृपद्यम् —
“यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो
भासो हासः कविकुलगुरुः कालिदासो विलासः ।
हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः
केषां नैषा कथय कविताकामिनी कौतुकाय ॥”
कालिदासस्यापरा दन्तकथा इत्थं भवति —
“भोजनं देहि राजेन्द्र घृतसूपसमन्वितम् । माहिषं च शरच्चन्द्रचन्द्रिकाधवलं दधि ॥”
इदं पद्यं यदि किंचित् हास्यास्पदमिव दृश्येत् ननु तत्र न कश्चन संशयः स्यात् । बह्व्य एव सन्ति कालिदासस्य दन्तकथाः । इयमप्येका वर्तते यत् केचन नवकवयः भोजराजस्यास्थाने प्रतिष्ठामिच्छन्तोऽचिन्तयन् — “यद्यस्माभिरेकमतिरमणीयं पद्यं रचितं तर्हि राजसम्मुखे तच्छ्रावयित्वा प्रतिष्ठां लब्ध्वा आस्थानकवयो भविष्याम” इति । परं नैव मनोरथः केवलः साधयति काव्यप्रतिभां खलु!
ते नवकवयः प्रथमां तु पङ्क्तिं साधारणामेवारचयन् किंतु नैव पद्यपूरणं कर्तुं शक्ताः । विवशास्ते कालिदासमेवाश्रयन् । स कालिदासः साधारणां तां भोजनभिक्षखाद्यवस्तुवर्णिनीमपि पङ्क्तिं नीत्वा तादृगेव खाद्यवस्तुमाश्रित्यासाधारणां द्वितीयां पङ्क्तिं रराच ।
परं भोजराजः स्वयं किञ्चित्कृतकाव्यपरिश्रमः पद्यस्य प्रथमाद्वितीययोर्पङ्क्त्योर्मध्ये असंरब्धत्वमवगाहयत् । नैकैव शैली दृश्यतेऽस्मिन् पद्ये, द्वितीयायां पङ्क्तौ दध्नः तादृगतिरमणीयं वर्णनं तु केवलं कालिदासस्य कृतिर्भवितुं शक्नोतीति च निश्चयं गतः । तेषां कवीनामनैतिकमाचारं दण्डयितुमिच्छन् राजापृच्छत्तान् कवीन् — “सत्यं वदत कस्येयं कृतिरिति, अथवा मरणमनुप्राप्स्यत” इति । भयभीतास्ते कवयः सत्यमेवावदन् । अतएवोक्तं — “उपमा कालिदासस्य” इति । नान्यः कश्चित्कविरुपमाप्रयोगे कालिदाससमक्षं प्रतिभासति । पुनःपुनरपि पठ्यते, उक्त्वा पुनरालोच्यते मयेयं पङ्क्तिः न संतृप्तिर्नैव श्रमः ध्यात्वा ध्यातुं वास्याः सौन्दर्यम् ॥
(Originally posted here: https://qr.ae/TcmK9h Oct 9, 2019)
No comments:
Post a Comment