“हारो नारोपितः कण्ठे मया विश्लेषभीरुणा ।
इदानीमावयोर्मध्ये सरित्सागरपर्वताः ॥”
अयं श्लोकः कस्मादुद्धृत इति स्पष्टतया न जाने । विद्वान् श्री शतावधानी गणेश महोदयस्य कस्मिंश्चित् प्रवचने श्रुतमिति स्मृतं यदयं श्लोकः हनूमन्नाटके आयाति इति ।
सन्दर्भः रामस्य सीतावियोगं प्रति दुःखप्रकटनम् । पूर्वं यदा सीता रामेण सहासीत्, तदा रामः कण्ठे कमपि हारमपि न धारयति स्म, किमर्थं, आलिङ्गने तिलमात्रमपि तयोर्मध्ये विश्लेषणं मा भूदिति । इदानीं रावणापहरणानन्तरं तु हारस्तत्र तिष्ठतु, सरितः, सागरः, पर्वता एव सन्त्यावयोर्मध्ये इत्यतिरमणीया ध्वनिरत्र सृष्टा ।
शास्त्रीयरीत्या अत्र “ध्वन्यालोक” प्रणेत्रा श्रीमदानन्दवर्धनाचार्येण ध्वनिसिद्धान्तः प्रयुज्यते । तत्पश्चात् सन्त्यनेका अलङ्काराः यथा - अनुप्रासः, श्लेषः, इत्यादि ।
(Originally posted here: https://qr.ae/TWyeCd Aug 29, 2019)
No comments:
Post a Comment