Saturday, March 7, 2020

प्रातःस्मरणीयानां भारते विस्मरणं अतीव दुःखप्रदः खेदकारी विषयः

अधुना भारते कति जनाः जानन्ति वा स्मरन्ति वा एतौ नरनारायणरूपिणौ — स्वामी विद्यारण्यं च श्रीमत्सायणाचार्यं च ?
वामहस्तगण्यसङ्ख्याकाः केवलम् ।
एतयोर्महापुरुषयोः सदृशः नान्यः कश्चिद्विद्यते भारतस्यार्वाचीनेतिहासे । प्राचीनकाले गतसप्तसहस्रवर्षेषु केवलौ द्वावेव दृश्यतः — भगवान् वासुदेव कृष्णः, भगवान् चाणक्यश्च ।
एते चत्वारः युगपुरुषाः कृष्णचाणक्यविद्यारण्यसायणाः सर्वेभ्योऽन्येभ्योऽधिकतरं सर्वतोमुखप्रतिभान्विताः न केवलमेकदेशीयः, अपि त्वनेकविधोपकाराण्यस्माकं सभ्यतायै संस्कृत्यै च कृतवन्तः, यथा न केवलं राजनीत्यां, परंतु साहित्ये, संस्कृत्यां, संगीतनाट्यकलादिषु, धर्मशास्त्रे, योगशास्त्रे, अध्यात्मशास्त्रे चापि तेषां केनचित्प्रकारेण योगदानमासीत् ।
यद्यपि कृष्णः चाणक्यश्च स्वस्वतत्कालसमाजे महत्प्रवर्तनं च धर्मपुनरुत्थानं च कृतवन्तौ, तयोः कालयोः सनातनधर्मः न तावान् च्युत आसीत्, यावान् माधवसायणयोर्काले आसीत् ।
यदि विस्तरेण पश्यामः, श्रीकृष्णस्य कालस्तु साक्षाद्वेदकालः । धर्मः सामान्यतः जनेषु सुदृढश्च स्वनुष्ठितश्चासीत् । भरतखण्डस्य सीमाः सुरक्षिता आसन् । वर्णाश्रमव्यवस्था सुखप्रदा च व्यक्तिगतगुणकर्माश्रिता चानत्याचारिणी चासीत् । बाह्याक्रमणाभावात् तदुत्पन्नानामापत्तीनामपि बाधा नासीत्। तर्हि केवलं दुर्योधनस्याहङ्कारं, शकुनेर्कूटनीतिं च, धृतराष्ट्रस्यान्धपुत्रमोहं च तस्य प्रजाहितोपेक्षां चेत्यासां समस्यानां समाधानेन सर्वं सौष्ठवं च योगक्षेमं च प्राप्यते इति दृढपरिज्ञानेन श्रीकृष्णः स्वकार्यमकरोत् ।
चाणक्यस्य कालेऽपि नात्याधिकाः बाह्यपरीक्षाः आगच्छन् । नन्दवंशस्त्वन्तिमकलायां स्थितः, महापद्मनन्दस्यैवोत्खननाद्वंशनिर्मूलनं साधितं चाणक्येन, तत्पश्चाद्योग्यः गुणोपेतः चन्द्रगुप्तः राजपदे स्थापितः । परंतु प्रभूततया देशः दृढकाय एवासीत्, अपि च स्वदेश-स्वधर्म-स्वकर्तव्य-विषये जनानां सामूहिकसंज्ञानं च सांस्कृतिकमैकमत्यमासीत् । यतः सर्वजनाः जानन्ति स्म किं राष्ट्रस्य साध्वसाधु च हितमहितं च, तस्मात्ते सर्वेऽप्यैक्येन राजानं सहकुर्वन्ति स्म । तस्मादेव यदा यवनराज अलक्षन्दरस्य दण्डयात्रा भारतस्यान्तःप्रदेशमागच्छत् चन्द्रगुप्तचाणक्ययोर्नेतृत्वे तस्य सुलभेन निरासोऽभूत् । केवलं भारतस्य वायव्यकोणे स्थितान् क्षुद्रगणराज्यानेव पराभवितुमशक्नोत् ।
अथ आगच्छामो चतुर्दशशतमाने विद्यारण्यसायणयोर्काले । तत्कालात्पूर्वमेव दशमशतमानप्रभृत्येव मुस्लिमानामाक्रमणं वायव्यदिशि प्रारब्धम् । प्रथमं तु मुहम्मद् बिन् कासिम्, ततः सुबुक्तिगिन्, ततः अल् हज्जाज्, ततः महमूद् गज्नवी, ततः मुहम्मद् घोरी, इत्यादयः घोरातिघोराः, बर्बरताचरमसीमाः, असभ्याः, धूर्ताः, अमानुषक्रूरकर्मिणः, कपटयुद्धतन्त्राः पुङ्खानुपुङ्खं वारंवारमाक्रम्य क्रमेण गन्धार-सिन्धुसौवीर-पञ्चनदराज्यानि घातयित्वा तत्रतत्र मुस्लिमराज्यानि स्थापितानि । अस्य न तात्पर्यं यत् हिन्दूराजानः निरस्त्राः भूत्वा तेभ्यः म्लेच्छेभ्यः शिरं नत्वा समर्पितवन्तः -- शुद्धत्रिशतवर्षकालं ते परमवीरोचितरीत्या प्रतियुध्यन्ते स्म, परं सम्पूर्णतया तेषां म्लेच्छानां निरासने असफला अभूवन्, प्राणत्यागं कृत्वा वीरस्वर्गं प्राप्ताः । अत्र हिन्दूराज्ञामपि दोषोऽस्ति यत्ते न सम्पूर्णतया परस्परेण मिलित्वा ऐक्येन प्रतियुध्यन्ते स्म, अपितु परस्परमपि राज्याकाङ्क्षया प्रतिद्वन्द्विनः सन्तः, तेभ्यः समानशत्रून् म्लेच्छानगणयित्वा महान् प्रमादः कृतवन्तः । क्रमेण मुस्लिमानां व्याप्तिः भारतस्य हृदयदेशानागता । देहल्यामपि मुस्लिमशासनमभूत् । तावता कालेन भारतस्यान्तर्देशेषु एकोऽपि बहुसमर्थः हिन्दूराजा नासीत्, तर्हि एकमन्वेकः राजा पराजितः, हतश्च । तदनु सहस्रशः हिन्दवः बर्बरतया समूहेन हताः अथवा बलात्कारेण वा, "जजिया"करद्वारा वित्तविवशतया वा इस्लाम् मतान्तरिताः ।
एतस्मिन् सर्वत्रकोलाहलस्थितौ सन्दर्भे होय्सळराज्ये जातौ भ्रातरौ माधवसायणौ । वैदिकपरम्परायां जातौ सुपण्डितौ, वेदार्थज्ञानिनौ, मेधाविनौ, जगद् व्यवहारपरिज्ञानिनौ च सन्तौ, तौ दक्षिणभारतेऽपि व्याप्तं मुस्लिमाघातं दृष्ट्वा गाम्भीर्येण विचारितवन्तौ इति विद्यते ।
तस्मिन्नेवावधौ, होय्सळेश्वरः वीरबल्लाळः मदुरा सुल्तान घियासुद्दीनेन हतः, तस्य राज्यं च विदीर्णं, तस्माद्दक्षिणदेशेष्वपि हिन्दूनामरक्षितत्वस्थितिरापन्ना । अपरत्र, द्रविडदेशे, तंजावूर-राजानं हत्वा, तस्य मांसं पाचयित्वा, तं राज्ञीराजपुत्रेभ्यश्च बलात्कारेण खादितुं दत्तम् । तदनन्तरं, राज्ञः चर्मकाये तृणं भरित्वा, तं नगरस्य मुख्यप्राकारे प्रदर्शनाय विलग्नम् ।
एतादृशी ऊहातीतबर्बरता कृता, एतैः राक्षसम्लेच्छैः ! अस्मदीयैः सुसभ्यैः सुसंस्कृतैः जनैः कथं प्रतिक्रियां कर्तव्यमित्येव चिरकालं न ज्ञातम् । तर्ह्येव मुस्लिमानां घोरातिघोरहिंसायाः विरोधमपि कर्तुमशक्ताः हिन्दवः ।
एतस्मिन् कलिदुष्प्रभावप्रत्यक्षे काले, दैवानुग्रहात्, माधवाचार्यस्य हरिहर-बुक्करायाभ्यां सह मिलनमभवत् । पूर्वमेव तौ भ्रातरौ होय्सळेश्वरस्य राज्ये पाल्याधिकारिणावास्ताम् । तौ युद्धे परास्तौ देहलीं नीत्वा तत्र इस्लाम् मतान्तरितौ, तयोः शिश्नचर्मपरिच्छेदनं च कारितं । एतत्सर्वं क्लेशं सोढ्वाऽपि स्वहिन्दूधर्मनिष्ठामत्यक्त्वा, तौ महान्तौ भ्रातरौ स्वमातृभूमिं कथंचिदपि पुनरागत्य, माधवाचार्येण सह मिलितौ । माधवाचार्यस्य नेतृत्वे, दक्षिणभारते पतितान् सर्वान् राज्यानेकीकृत्य,सुदीर्घपरिश्रमेन महत् विजयनगरराज्यं स्थापितम् ।
विजयनगरस्य स्थापनं तु प्रत्यक्षेन, परिभाषातः, वैदिक सनातनधर्मस्य संरक्षणार्थमिति ऐतिहासिकसत्यम् । यदि विजयनगरस्य स्थापनं नाभविष्यत्, तर्हि दक्षिणभारते हिन्दूधर्मः सम्पूर्णतः विनाशमियात्, अपि चाद्य हिन्दूधर्मः नैव स्यात् । राजनैतिकसुरक्षा प्राप्तायां, सर्वतोमुखी प्रगतिः साधिता । साहित्यसंगीतकलासूच्छ्रायता प्राप्ता । वाणिज्यं समृद्धिं प्राप्तम् । राज्यं शनैः विस्तारं प्राप्तम् । राजा कुमारकम्पणः पराक्रमेण मदुराराज्यं मुस्लिमशासनात् मोचितवान् । राज्ञः पत्नी गङ्गादेवी स्वयं प्रतिभाशालिनी संस्कृतविदुषी, पत्युर्पराक्रमं च मदुरानिवासिनां मुस्लिमशासने दीर्घयातनाश्च साक्षाद्दृश्यरमणीयरीत्या "मधुराविजयम्" इत्यस्मिन् काव्ये निबद्धाः । विस्तारतमे काले सर्वं दक्षिणापथः विजयनगरसाम्राज्यमेवासीत् । श्रीकृष्णदेवरायः विजयनगरस्य मध्यकालस्यातिकीर्तिमान् सम्राडासीत्। तस्योपाधिषु सन्त्येताः -- "हिन्दूरायसुरत्राणः" च "तुरुष्ककाननदवानलः" चेति ।
माधवाचार्य एव संन्यासाश्रमं गत्वा प्रसिद्धः स्वामी विद्यारण्यनाम्ना प्रख्यातः । तस्य भ्राता च श्रीमत्सायणाचार्यो सम्पूर्णवेदवाङ्मये भाष्याणि लिखित्वा वेदसंरक्षणमकारि । यदि स वेदभाष्याणि नाकरिष्यत्, अधुनास्मभ्यं वेदज्ञानस्य नवनवतिः प्रतिशतं भागं शाश्वतं विलुप्तमेवाभविष्यत् । स्वामी विद्यारण्यः शृङ्गगिर्यां शाङ्करमठस्याधिपतिर्भूत्वा कार्यनिर्वाहत्वमतीवनिपुणत्वेनाकरोत् । तस्यैव श्रेयःप्रभावात् शृङ्गगिरिमठं गुरुत्वं च राजसम्मानं चाप्नोत् ।
यदि स्वामी विद्यारण्यश्च श्रीमत्सायणाचार्यश्च न प्रादुरभविष्यन्, निश्चयेनास्माकं भारतीय वैदिक सनातनधर्मः शाश्वतमस्तमगमिष्यत् । विजयनगरस्यैव व्यवस्थामाधारीकृत्य शतमानानन्तरं शिवाजी महाराजः हिन्दूराज्यस्य विस्तारं बहुगुणं कृतवान् ।
अतएव एतौ द्वौ नरनारायणरूपिणौ माधवसायणौ नित्यं प्रातःस्मरणीयौ सर्वैः भारतीयैः ।
आगामिनि लेखने माधवसायणयोः प्रशंसापद्यान्युदाहरिष्यामि ।

(Originally posted here: https://qr.ae/TWyQo7 Aug 24, 2019)

No comments:

Post a Comment