Saturday, March 7, 2020

वेङ्कटेश-सुप्रभातस्तोत्रे बौद्धावतारस्यानुपलब्धिः

सामान्येनाधुना भूयिष्ठाः सनातनधर्मिणः सिद्धार्थगौतमबुद्धं भगवतो विष्णोरवतारमिति मन्यन्ते । परं पुरा न सर्वदा तथा ।
उदाहरणाय, श्रीवेङ्कटेशसुप्रभातस्तोत्रे भगवदवतारगणनायां बुद्धो नाङ्गीकृतः —
“मीनाकृते कमठ कोल नृसिंहवर्णिन्
स्वामिन् परश्वथ तपोधन रामचन्द्र ।
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥”
—अत्रोल्लेखिता अवताराः — मत्स्यः, कूर्मः, वराहः, नरसिंहः, वामनः, परशुरामः, कोदण्डरामः, हलरामः, कृष्णः, कल्किः ।
इदं स्तोत्रं तु चतुर्दशशतमाने रचितं, तावता कालेन तु सर्वेऽपि बुद्धं जानन्ति स्म । परं न सर्वे बुद्धं भगवदवतारं मन्यन्ते ।

(Originally posted here: https://qr.ae/TcmKgm Oct 15, 2019)

No comments:

Post a Comment