Saturday, March 7, 2020

शुष्को वृक्षस्तिष्ठत्यग्रे

शुष्को वृक्षस्तिष्ठत्यग्रे तदुपरि कश्चित्सर्पोऽप्यस्ति ।
नीरसतरुरिह विलसति निकटे तदुपरि मणिमयकुटिलभुजङ्गः ॥”
इदं पद्यमद्याकस्मात् स्मृतं मया, तर्ह्यचिरेणात्र लेखनीयमित्यागतवान् :)
दन्तकथानुसारेण, महाकविः बाणभट्टः स्वमहाकृतिं “कादम्बरीं” असम्पूर्णां त्यक्त्वैव पञ्चत्वं गतः । तत्पश्चात् पण्डिताः कृतिं कः समापयेदिति विचारितवन्तः । तदा बाणभट्टस्य द्वावपि पुत्रौ अहमहमिति कृतवन्तौ । तयोः पद्यरचनायाः सरसतां च सौष्ठवं च परीक्षितुं पण्डिताः तयोः सम्मुखे स्थितं कञ्चिद्वृक्षं पङ्क्त्यां वर्णयितुं दत्तवन्तः ।
तर्ह्येकः पुत्रः प्रथमां पङ्क्तिमरचयत् — “शुष्को वृक्षस्तिष्ठत्यग्रे तदुपरि कश्चित्सर्पोऽप्यस्ति” इति । अपरः पुत्रः द्वितीयां पङ्क्तिमरचयत् — “नीरसतरुरिह विलसति निकटे तदुपरि मणिमयकुटिलभुजङ्गः” इति ।
किं भवन्तोऽनुमातुं शक्नुवन्ति कस्मै पुत्राय कादम्बरीसमापनकर्तव्यं दत्तमिति?
आम्, द्वितीयपङ्क्तिरचयित्रे दत्तम् । कथम्?
यदि भवन्तः सूक्ष्मेन पश्यन्ति, प्रथमपङ्क्तौ कर्कशाक्षराणां बाहुल्यमस्ति, यथा — श, ष, ठ, आदयः । अपि च कर्कशाक्षरैः निर्मितानि सम्युक्ताक्षराण्येव राराजन्ते :) यथा — ष्क, क्ष, ष्ठ, श्च, आदयः । तर्ह्येषा पङ्क्तिरवरुध्यावरुध्य कर्कशतया पठ्यते गीयते च, तन्न सरसमधुरप्रवाहयुक्तम् ।
तथैव, द्वितीयपङ्क्तौ मृदुलाक्षराण्येव दृश्यन्ते यथा — न, स, र, ह, त, आदयः । अपि च नैकमपि सम्युक्ताक्षरं पश्यामः, कर्कशसम्युक्ताक्षराणां तु पूर्णाभावोऽस्ति । तर्ह्येषा पङ्क्तिरनवरोधं तैलधारावत् स्निग्धतया सरसमधुरप्रवाहेण पठ्यते गाीयते च ।

अहो अनन्तस्वारस्यभरितं संस्कृतवाङ्मयम् । यद्येव कश्चिद् धनवान् मम जीवनं प्रायोजयेत, तदाहं संस्कृतास्वादनाध्ययनाध्यापनेषु यापयेयं यावदायुः । कुत आयायादेतावत् सौभाग्यम् !

(Originally posted here: https://qr.ae/TcmKuL Oct 29, 2019)

No comments:

Post a Comment