Saturday, March 7, 2020

अद्वैतसिद्धान्तं प्रति अन्यसिद्धान्तिनामाक्षेपः

अद्वैत-विशिष्टाद्वैत-द्वैतसिद्धान्तानुयायिनां मध्ये तु नितरामेव विवादः प्रचलित एव । तत्र अनद्वैतसिद्धान्तानुयायिनोऽद्वैतं प्रति बहूनाक्षेपान् कृतवन्तः । यदि ते आक्षेपाः विप्रतिपन्नाः सन्ति वा न वा इत्यत्र न विचारणीयम् । न चाहं वेदान्तसिद्धान्तेषु वाचस्पतिमिश्रवद्वा माधवाचार्यवद्वा परिच्छेदसमर्थः ।
तर्हि यथामतिविरिचितं ममैकं पद्यमत्र प्रस्तुतमस्ति —
अद्वैतखण्डनम्
नेति नेतीति निगमबद्धवचनं
जगन्मिथ्येति ब्रह्मसत्ताप्रवचनम् ।
तस्मिन्नपि रूपरसगुणनिषेधः
शून्याराधनोऽयं पुमान् मोहमेधः ॥

(Originally posted here: https://qr.ae/TWAr19 Oct 8, 2019)

No comments:

Post a Comment