Saturday, March 7, 2020

"कर्म वा स्वधा वा" -- मम पुरातनः प्रथमकाव्यप्रयत्नः

यदाहं प्रथमं संस्कृतभाषामध्येतुमारब्धवान् पञ्चम्यां वा षष्ठ्यां वा कक्षायां, मनोल्लासस्य सीमां नापश्यम् । यथा जन्मान्तरः कश्चनानुरागश्चानुबन्धश्च पुनराविष्कृत इवान्वभवम् । तत्क्षणादेवाभासितं यदियं संस्कृतभाषा मम जन्मजन्मान्तरप्रियतमा इति । छात्रः सन्नपि इयं भाषा मह्यं अपरिचिता इति कदाचिदपि नान्वभवम्, सर्वदा जानन्नेवासम्, केवलं पुनःस्मरणमेव करणीयमित्येव भासते स्म, न च आदितः अवगन्तव्यमिति ।
तर्हि यंकमपि संस्कृतवाक्यं यतोकुतो वा पठनीयमिति मनोऽकरोत् । तत्पश्चात् शनैःशनैः ग्रन्थानध्येतुं यते स्म । काव्यान्यपि किञ्चिदत्रतत्र रसयितुमयते ।
पद्यानि लिखितुमपीषदीषत् प्रयत्नं कृतवान्, न तादृक् साफल्यं प्राप्तं यादृशा “अधमकविः” इत्यपि अन्वभवितुम् । तस्मै विशेषेण साधना कर्तव्या, अध्ययनं च कर्तव्यं, अलङ्कारशास्त्रं पठनीयं, छन्दःशास्त्रं हस्तगतं कर्तव्यं, पूर्वकवीनां कृतयः पुनःपुनरप्यवलोकनीयाः। एतत्सर्वं कृत्वापि न सर्वः कविर्भवितुं शक्नोति, अन्तःप्रचोदनं किमपि अनिवार्यं, यथैव न सर्वोऽपि गायको वा नर्तको वा वैज्ञानिको वा भवितुमर्हति ।
यद्यपि पद्यकाव्यरचना न सौकर्येण साध्या, गद्यमेव काव्यमयरीत्या लिखितुं तु अधिकतरैः लोकैः साधितं भवेत् । छन्दोनियमाभावात्, वाक्यान्येव सरसभाषया लिखितुं न तावान् क्लेशः । पूर्वादपि गद्यकाव्यपरम्परा अस्ति देववाण्याम् ।
अस्तु तावत् । इदानीं, ममैका पुरातना तुच्छतमा निकृष्टतमा केवलकाव्याभासा कृतिरत्र प्रस्तूयते । न छन्दःसौष्ठवमस्ति, न वा भाषासौष्ठवम् — कृपया क्षम्यताम् !!
“कर्म वा स्वधा वा”
किंस्विद्गुरुतरं कर्मस्वधयोरनयोस्सखे ।
किमाश्रित्य मनुष्यस्य जीवितं साधितं भवेत् ॥१॥
जन्मनिजन्मनि यद्यच्चेष्टितं कार्यं भुवि ।
मानवैस्सुकृतमुताहो दुष्कृतं कार्यं कृतम् ॥२॥
कृतस्यैव हि कार्यस्य तस्योदयते तु फलम् ।
सद्ये वा जन्मन्यथ वा जन्मस्वागामिनेषु वै ॥३॥
यानि कर्माणि सद्यैव फलायन्ते स्वरूपतः ।
तानि व्यावहारिकाणि कथ्यन्ते भौतिकानि वा ॥४॥
तान्यपराणि कर्माणि अव्यावहारिकाणि तु ।
येषां नैव फलं प्राप्तमिदानीन्तनजन्मनि ॥५॥
तेषां फलसमूहं हि दैवमित्यपि कथ्यते ।
प्रारब्धसञ्चितागामिन् विभक्तं हि कर्म त्रिधा ॥६॥
पूर्वाणां हि जन्मनां यत्कर्मणां प्रारभ्यते तत् ।
फलमधुना जन्मनि प्रारब्धमभिधीयते ॥७॥
पुनः पूर्वाणां जन्मनां जन्मन्यागामिनि हि यत् ।
फलकर्मविकसनं ज्ञातस्तदागामिन्निति ॥८॥
यदद्यावधिजन्मनि क्रियते कर्माणि पुमान् ।
क्रियते फलसञ्चयं भविष्याय तत्सञ्चितम् ॥९॥
अन्या त्वेभ्यो सा ज्ञाता या स्वधेति कथिता हि ।
स्वेच्छा त्वस्यापरं नाम स्मृता चात्मशक्तिरिति ॥१०॥
ममैवेयमस्ति बुद्धिर्ममैवाप्यस्तीदं मनः ।
चित्तञ्च मे स्मृतिश्च मे ममैव जीवितमिदम् ॥११॥
यद्यत्कार्यं सङ्कल्पये तत्तदेवाचराम्यहम् ।
यत्स्वहस्तगतान्येव सर्वाणि निश्चयानि वै ॥१२॥
अतो कुत्रचिन्नैव दैवहस्तक्षेपं दृश्यते ।
यद्यत्कार्यमाचरितं मया स्वेच्छाशक्तिना ।
तस्यतस्यैव जानन्हि सम्यगाचरामि फलम् ॥१३॥
कोऽस्ति दर्शय हे सखे तादृक्कर्मवान्पुमान् ।
यस्य स्वकर्मणा जातु स्वकल्याणं न कुरुते ॥१४॥
तत्त्वन्यः विषयो हि यत्किंकिं कल्याणकरं भुवि ।
परमेकैकोऽपि नरो स्वे स्वे कल्याणे नियुङ्क्ते ॥१५॥
अपि प्राप्स्यति स्वस्य विपाकसमये फलम् ।
इत्येवं प्रवर्तितं लोकमागच्छति दैवं कुतः ॥१६॥
आलस्यस्यैव साक्षात्ते ये के दैवपरायणाः ।
मूर्तयोऽप्रयत्नशीलाः यद्भवति भवत्विति ॥१७॥
कथं वयं विजानीमो यत्पूर्वमपि जन्मिनः ।
न कमपि पश्यामः यो पूर्वजन्म स्मर्यते ॥१८॥
इदं जन्म प्राप्तमस्मिन् कर्मण्यधिकारश्च मे ।
वित्तार्जनं करिष्ये सौख्यं जीवनं नयिष्ये ॥१९॥
तर्हि कुतोऽयमागच्छत्पूर्वजन्मफलभोजनम् ।
यस्मिन्नः नैव जानीमो कानि कृतानि कर्माणि ॥२०॥
एवंविधं हि चिन्तनं तेषां ये स्वेच्छजा इव ।
पुनः प्रश्न उदीषति किमेतयोर्बलीयसम् ॥२१॥
अपीदं सत्यमेव यल्लोके कश्चिद्दरिद्रो हि ।
स्वाकिञ्चनत्वं कर्मणि स्वस्याध्यारोपयति ॥२२॥
अहि किञ्चत्महत्पापं विसृष्टं हस्ताभ्यां मम ।
पूर्वजन्मन्यतो दैन्यभागिति तिष्ठति चिन्तयन् ॥२३॥
पुनः स पुमान्यो लक्ष्मीं निवासयति शाश्वतम् ।
नन्दत्येव स्वैश्वर्ये किमस्ति चिन्ताकारणम् ॥२४॥
बतास्माभिर्परिश्रमं यथाशक्तिर्हि कार्यते ।
तर्हि यथापरिश्रमं वित्तं भुञ्जाम स्वार्जितम् ॥२५॥
कञ्चिदुद्योगिनं पुरुषमागच्छेत यशः क्वचित् ।
अहो महासौभाग्यं ममास्तीति स नन्दति ॥२६॥
पुनस्तादृक् श्रमी कर्मी नैव प्राप्येत तद्यशः ।
किमर्थं श्रमणं कार्यं मया निर्गतभाग्येन ॥२७॥
आतपतापपजले कस्मिंश्चित्काननह्रदे ।
जीवापायसंमुखोऽसौ झषराजोऽस्ति किंकरः ॥२८॥
सन्त्यत्रतत्रैव केचित् क्षुद्रक्षुद्रा जलाशयाः ।
अस्मादुत्प्लुत्य जलाशयादमुकं मीनः गच्छति ॥२९॥
नैव जानाति तन्मत्स्यो उत्कूर्दन्नितस्ततः ।
कतमः जलाशयः श्रेष्ठः कोऽस्ति नीरबहुलः ॥३०॥
तर्ह्यपि प्रयत्नशीलो आशावाननवसादी ।
अन्वेष्टव्यं विशालतरमन्यमेव जलाशयम् ॥३१॥
इति निश्चित्य सुदृढं गच्छेन्नैव दैववशम् ।
यदि भाग्यवानस्ति मत्स्यः जीविष्यति पुनस्सरे ।
यदि नैव दैवजुष्टः विवशः म्रियते पुनः ॥३२॥
अप्येतादृग्भवेद्यस्मात्पुमान् प्रेयो न प्राप्नुयात् ।
श्रेयो हि लब्धं तेनैव विना याच्यमानेन ॥३३॥
अतो नैव सर्वदा हि दैवं दुष्येन्मानवः ।
कदाचिद्वरतरं दैवं तुल्यमानं तु स्वेच्छया ॥३४॥
तापं यच्छेज्जलं यच्छेन्नैवातिमात्रमुभयोः ।
तदा सस्यः भवेद्द्रुमः अथवा मरणमियात् ॥३५॥
स्वधया कुर्यान्नरः कर्म दैवं चाप्यनुसरेन्नरः ।
उभयोर्यन्मिश्रितं फलं जानीयात्तं श्रेष्ठं सिद्धिदम् ॥३६॥

(Originally posted here: https://qr.ae/TWyfha Sep 7, 2019)

No comments:

Post a Comment