Saturday, March 7, 2020

माधवसायणयोः प्रशंसापद्यद्वारा लघुचरित्रचित्रणम्

पूर्वमेव महानुभावानां श्रीमन्माधवाचार्य-स्वामीविद्यारण्यस्य च श्रीमत्सायणाचार्यस्य च माहात्म्यमुल्लेखितमत्र —
पुनरुक्तिदोषमपि सोढ्वा वदामि माधवसायणयोः महाकर्तृत्वस्य स्मरणं भारतीयैः विशेषतः सनातनधर्मिभिर्नैव संकोचयेत् । एतयोः स्मरणं पूजनं संकीर्तनं च भगवदवतारवत् कर्तव्यमिति ममाभिप्रायः यतः एतयोर्परिश्रमेण विना साधनया विना, अधुना सनातनधर्मः नैव स्यात् ।
एतयोः युगपुरुषयोः बहुमुखप्रतिभान्वितचारित्र्यं च निजकुटुम्बवर्णनं च कतिपय श्लोकेषु द्रष्टुं शक्नुमः ।
श्रीमन्माधवाचार्यस्य पराशरस्मृतिव्याख्याप्रस्तावनाया उद्धृतं श्लोकद्वयम् —
श्रीमती जननी यस्य सुकीर्तिर्मायणः पिता।
सायणो भोगनाथश्च मनोबुद्धिसहोदरौ॥
यस्य बौधायनं सूत्रं शाखा यस्य च याजुषी।
भारद्वाजं कुलं जन्म सर्वज्ञः स हि माधवः॥
इत्यत्र श्रीमन्माधवाचार्यस्य प्रावेशिकपरिचयं दत्तम् — प्रप्रथमं तु गौरवेण मातां श्रीमतीमेवोदाह्रियते ततो तातं मायणम्। तस्य द्वौ भ्रातरौ सायणभोगनाथौ परस्परमन्योन्यसम्बन्धिनः त्रयोऽपि मनसा बुद्धिर्यथा । तस्य स्वशाखा कृष्णयजुर्वेदः यतो प्रथमं वेदभाष्यं तैत्तिरीयस्यैव लिखितं । भारद्वाजगोत्रं, बौधायनसूत्रपद्धतिः ।
श्रीमत्सायणाचार्यस्य काव्यप्रतिभानिदर्शनाय कतिपयपद्यानि ’सुभाषितसुधानिधि’ इत्येतस्माद् ग्रन्थादुद्धृतानि —
वीरश्रीकम्पराजोऽस्ति विदुषां सञ्चरन्निधिः ।
यत्कीर्तिकामिनीहस्ते ब्रह्माण्डं कन्दुकायते ॥
समुद्रामुद्रितान् कृत्वा प्रायः प्रत्यर्थिपार्थिवान् ।
समुद्राधिपतिर्योऽभूत् नाम्बुधीशतया परम् ॥
(अत्र प्रथमकम्पणराजस्य प्रशस्तिर्विद्यते — “समुद्रामुद्रितान् कृत्वा” इत्यत्र अन्यराजानः स्वमुद्रया दमयति अतो तस्य समुद्राधिपतिर्नाम न केवलं पूर्वापरसमुद्रमध्यस्थभूपतिरिति श्लेषं कृतम् )
कम्पक्षितीशमनिशं कथयन्ति सन्तः
सङ्गीतदुग्धजलधेरुदितं सुधांशुम् ।
साहित्यमानससरोवरराजहंसं
संग्रामरङ्गनटनस्थितिसूत्रधारम् ॥
जित्वा यत्र पुरत्रयं सरथिको धन्वी न्यधात्साधनं
सर्वे कम्पमहीप निश्चिनुमहे त्वय्येव देवश्चिरात् ।
सूतं चेतनया तुरङ्गनिकरं वाचा रथाङ्गे रुचा
चापं धीरतया भुजेन च गुणं बाणं प्रतापेन च ॥
(अत्र कम्पणराजस्य पराक्रमं साक्षात् महादेवस्यायुधपरिकरैः सह तुलितं — चेतना सारथिना, वाक् अश्वैः, रुक् रथचक्रैः, धैर्यं धनुषा, भुजबलं गुणेन, प्रतापं बाणेन च )
श्रीमत्सायणाचार्यस्य वेदभाष्यकर्तृत्वनियोजनस्य सन्दर्भः तैत्तिरीयभाष्यप्राक्कथनादुद्धृताः श्लोकाः —
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
(अयं तु सुप्रसिद्धः श्लोकः सर्वेषु सायणवेदभाष्येषु प्रस्तावनायामायाति )
यत्कटाक्षेन तद्रूपं दधद्बुक्कमहीपतिः ।
आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुर्माधवाचार्यो वेदार्थं वक्तुमुद्यतः ॥
स प्राह नृपतिं राजन् सायणार्यो ममानुजः ।
सर्वं वेत्त्येष वेदानां व्याख्यातृत्वेन युज्यताम् ॥
इत्युक्तो माधवाचार्येण वीरबुक्कमहीपतिः ।
अन्वगात्सायणाचार्यं वेदार्थस्य प्रकाशने ॥
श्रीमन्माधवसायणयोः निजकुटुम्बचित्रणमेतेषु दृश्यते (अलङ्कारसुधानिधि ग्रन्थादुद्धृताः) —
मातर्मानय पादपद्मरजसा मौली ममाश्लिष्यतां
तात त्वं च समेधयालकगतां प्रीतिं नखज्योत्स्नया ।
अम्ब त्वं कपिले गृहाण यवसग्रासान्ममार्घानुगान्
इत्याराधयतीश्वरं गुरुजनं गां चान्वहं सायणः ॥
वत्स व्यञ्जय कम्पण व्यसनितां सङ्गीतशास्त्रे तव
प्रौढं मायण गद्यपद्यरचनापाण्डित्यमुन्मुद्रय ।
शिक्षां दर्शय शिङ्गण क्रमजटाचर्चासु वेदेष्विति
स्वान् पुत्रानुपलालयन् गृहगतस्सम्मोदते सायणः ॥
(प्रतिदिनं प्रातः मातरं प्रणमति तस्याः पादधूलिः स्वशिरसि सदास्त्विति, तातं प्रणमति तस्य पादनखपरावर्तितज्योतिरुदयकालं सूचयत्विति, गृहे स्थितां गोमातरमपि पूजयति, तस्यै यवसग्रासान् ददाति च । स्वपुत्रान् त्रीन् स्वस्वरुच्यनुसारेण प्रोत्साहयति — कम्पणस्य सङ्गीतरुचिः, मायणस्य काव्यरुचिः, शिङ्गणस्य वेदशिक्षाशास्त्ररुचिः )
सायणाचार्यस्य मन्त्रिपदे शासननिपुणतायाः प्रशंसा —
सत्यं महीं भवति शासति सायणार्ये सम्प्राप्तभोगसुखिनः सकलाश्च लोकाः ।
तद्वैरिणस्तदपि शैलवनान्तरेषु शुष्यन्त्यमन्दमुखनिःश्वसिताः क्षुधार्ताः ॥
लक्ष्मीस्ते मन्त्रशौर्याभ्यां अहितेभ्यस्समाहिता ।
आहृता त्यागभोगाभ्यां अद्भुतं सायण प्रभो ॥
भो भो सायणमन्त्रिशासनमिदं भूमौ समुद्घुष्यतां ।
ये ये स्वामिनि सङ्गमक्षितिपतौ सेवानभिज्ञा नृपाः ॥
शौर्योच्छृङ्खलसङ्गमेश्वरसाम्राज्यसम्पादन-
प्रोद्यत्सायणमन्त्रिरभसक्षुण्णक्षमासम्पदां ।
गूढं काननगह्वरेषु चरतामस्माकमत्युन्नतै-
रेभिः किं घनगर्जितैर्वनगजैः किं वा सहर्षैर्हयैः ॥
सायणाचार्यस्य युद्धशौर्यमपि संदिश्य कतिपय श्लोकाः —
गर्जद्दुर्जयगन्धसिन्धुरघटासंघट्टनष्टाष्टदि-
क्क्रुद्धस्सान्द्रतुरङ्गहेषितरवैर्ग्रस्तान्यघोषोदयः ।
धाटीमोटनलम्पटोद्भटभटव्याधूतधूलीभर-
च्छन्नव्योमपथो विनिर्जिगमिषत्युर्वीजये सायणः ॥
दिष्ट्या दैष्टिकभावसम्भृतमहासम्पद्विशेषोदयं ।
जित्वा चम्पनरेन्द्रमूर्जितयशः प्रत्यागतस्सायणः ॥
(अत्र विशेषतः गरुडनगरस्य राजा चम्परायस्योपरि एकाङ्गेः सायणाचार्यस्य विजयः सूचितः )
येन निर्मायते नित्यं धनैरायोधनैरपि ।
श्रेयसे यशसे दानं विदुषां विद्विषामपि ॥
मेरुणा सदृशं रूपं सत्यं सायणमन्त्रिणः ।
तव रूपमिवाचार आचार इव ते यशः ॥
पावकस्य यथा तेजः प्रसादः शशिनो यथा ।
तथा तवापि मन्यन्ते सायणार्य मनीषिणः ॥
त्यागे भोगे तथाचारेष्वाहवेषु हवेषु च ।
सायणार्यसमो लोके सायणार्यो न संशयः ॥
स्वामी विद्यारण्याय नमः श्रीमत्सायणाचार्याय नमः ।

(Originally posted here: https://qr.ae/TJoe3A Sep 6, 2019)

No comments:

Post a Comment