Saturday, March 7, 2020

"अभिराम" शब्दस्य साहित्ये विरलत्वं; अपि च वेदे, काव्ये, स्तोत्रे उदाहरणानि

“अभिराम” इति पदं केनचित् कारणेन किञ्चद्वैशिष्ट्यं धरति, अतो ह्येव साहित्ये तस्योपलब्धिरप्यतिविरला ।
“अभि” इत्युपसर्गस्तु न केवलं प्रसिद्धः, अपि च प्राचुर्येनोपलब्धः साहित्ये । यथा — अभिषेक, अभिवाद, अभ्यागत, अभिप्राय, अभिनन्द, अभीक्षा, अभिमन्त्रण, अभ्युदय, इत्यादि ।
“राम” इत्यस्य पदस्याप्युपयोगः प्रभूततया विद्यते एव । यथा — विराम, आराम, उपराम, इत्यादि। अस्य धातु: “रम” इत्यस्यापि बहवो रूपाः दृश्यन्ते, यथा — रमा, रमणः, रमणीय, रम्य, इत्यादि।
परं “अभिराम” पदस्य केवलं द्वित्राण्येवोदाहरणान्युपलभ्यन्ते — आश्चर्येण, वेदमपि गणय्य !
अत्र, यथाज्ञानं साहित्ये “अभिराम” पदस्योदाहरणानि दास्यामि ।
ऋग्वेदे —
ऋग्वेदे ममाल्पज्ञानावधौ त्वेकवारमेव “अभिराम” शब्द आयाति — षष्ठमण्डलस्य सप्तदशसूक्तस्य षष्ठ्यामृचि । भरद्वाज बार्हस्पत्य ऋषिः, इन्द्रो देवता, त्रिष्टुप् छन्दः —
“तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः ।
और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान् ॥”
यद्यपि सायणभाष्ये न “अभिरामासु” इति पाठः, तत्र “दंसनाभिः आमासु” इत्येव । केवलं सन्धिश्रवणमात्रेण तत्र “अभिरामासु” इत्याभासः । तर्ह्यशास्त्रविदः, अपरम्पराविदः स्वयमेव वेदार्थानुद्घाटितुं गच्छन्तः तत्रानुचितं पदपाठं कृत्वा, “दंसनाः अभिरामाः इति दंसनाभिरामाः, तासु” इत्यप्यर्थं कृत्वा वेदार्थं वक्रीकारयन्तोऽपि सन्ति जनाः ।
तथापि, अस्यामृचि “दंसनाः अभिरामाः इति दंसनाभिरामाः, तासु” इति पाठः क्वचित् क्वचिदुचितः इति प्रतिभाति मे । इन्द्रस्य दंसनाः अर्थात् कर्माणि, अभिरामाः अर्थात् सुन्दराणि सन्तीति अर्धार्थं कृत्वापि सन्तृप्ताः भवितुं शकेम । तर्हि ऋचोऽर्थमीदृशं भवति — “हे इन्द्र, तव ज्ञानेन तव सुन्दरेषु कर्मसु (दंसनाभिरामासु) शक्त्या पक्वं अर्थात् फलवन्तम् दुग्धं नि दीधः अर्थात् अधारयः” इति । इदं तु भागशः विनोदार्थमपि कृतम् ।
काव्ये —
कविकुलगुरोर्कालिदासस्य “अभिज्ञानशाकुन्तल”नाटके प्रथमेऽङ्के एकवारं “अभिराम” शब्द आयाति।
तत्र रथेन सूतेन च मृगानुसारी राजा दुष्यन्तः सूतं प्रति वदति —
“सूत, दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि,
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायं ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥”
इत्यत्र कृष्णमृगः राज्ञः शरपतनभयात् कीदृक् सुन्दररीत्या ग्रीवां भङ्गीकरोति, तस्य मुखादर्धजग्धतृणखण्डाः कीदृक् पतन्ति, कीदृक् तस्य तीव्रप्लुतत्वात् आकाशे एवोड्डयति न भूम्यां धावतीति सर्वं वर्णितम् ।
स्तोत्रे —
श्रीवेंकटेशसुप्रभातस्तोत्रं त्वतीव सुन्दरं विलक्षणं च काव्यं लोकविख्यातमेव । एतत् पञ्चदशशतमाने श्री “प्रतिवादिभयङ्कर” अनन्ताचार्यवर्येण रचितं, अतीवार्थगाम्भीर्येण भरितं च, अतिविलक्षणकाव्यभाषाश्रयं चास्ति ।
तस्मिन् चत्वारः भागाः सन्ति — “सुप्रभातं”, “स्तोत्रं”, “प्रपत्ति:”, मङ्गलाशासनं” चेति ।
तत्र स्तोत्रभागे एकस्मिन् श्लोके “अभिराम” शब्द एकवारमायाति ।
श्रीवेंकटेशस्तोत्रे षष्ठः श्लोकः —
अभिराम गुणाकर दाशरथे जगदेकधनुर्धर धीरमते ।
रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥

इति सम्पूर्ण संस्कृतसाहित्ये ममाल्पज्ञानपरिध्यां केवलं त्रिवारमेव “अभिराम” शब्दः दृष्टः ।

(Originally posted here: https://qr.ae/TcmKBb Sep 20, 2019)

No comments:

Post a Comment