Saturday, March 7, 2020

संस्कृतसाहित्ये परिहासाः

यदि भवन्तः मन्यन्ते संस्कृतभाषा केवलं अतिगम्भीरविषयानामेव व्यक्तकरणे उपयुक्ता इति, न साधु मतं भवद्भिः ।
हास्यकाव्यानि, हास्यनाटकानि बहूनि सन्ति । अपि चाटुपद्यानां तु महाभण्डार एवास्ति । हास्यसाहित्यं यावत्पर्यन्तं व्युत्पाद्यते भाषायां, तावत्कालं भाषा जनानां जिह्वासु संचरन्ती आसीदिति निश्चयेन ज्ञायते ।
अधः प्रस्तूयमानाः हास्यपङ्क्तयः महावेदाचार्य श्रीमत्सायणाचार्यस्य कस्मिंश्चद् ग्रन्थे आयान्ति —
गृध्री गृध्रं पृच्छति, “पते! कथमद्य नास्माकं श्मशाने धूम उदेति?”
गृध्रः प्रतिवदति, “प्रायः अद्यास्माकं वैद्यः पार्श्वग्रामं गतः !”
:-) lol

(Originally posted here: https://qr.ae/TWrj99 Aug 22, 2019)

No comments:

Post a Comment