Saturday, March 7, 2020

शुष्को वृक्षस्तिष्ठत्यग्रे

शुष्को वृक्षस्तिष्ठत्यग्रे तदुपरि कश्चित्सर्पोऽप्यस्ति ।
नीरसतरुरिह विलसति निकटे तदुपरि मणिमयकुटिलभुजङ्गः ॥”
इदं पद्यमद्याकस्मात् स्मृतं मया, तर्ह्यचिरेणात्र लेखनीयमित्यागतवान् :)
दन्तकथानुसारेण, महाकविः बाणभट्टः स्वमहाकृतिं “कादम्बरीं” असम्पूर्णां त्यक्त्वैव पञ्चत्वं गतः । तत्पश्चात् पण्डिताः कृतिं कः समापयेदिति विचारितवन्तः । तदा बाणभट्टस्य द्वावपि पुत्रौ अहमहमिति कृतवन्तौ । तयोः पद्यरचनायाः सरसतां च सौष्ठवं च परीक्षितुं पण्डिताः तयोः सम्मुखे स्थितं कञ्चिद्वृक्षं पङ्क्त्यां वर्णयितुं दत्तवन्तः ।
तर्ह्येकः पुत्रः प्रथमां पङ्क्तिमरचयत् — “शुष्को वृक्षस्तिष्ठत्यग्रे तदुपरि कश्चित्सर्पोऽप्यस्ति” इति । अपरः पुत्रः द्वितीयां पङ्क्तिमरचयत् — “नीरसतरुरिह विलसति निकटे तदुपरि मणिमयकुटिलभुजङ्गः” इति ।
किं भवन्तोऽनुमातुं शक्नुवन्ति कस्मै पुत्राय कादम्बरीसमापनकर्तव्यं दत्तमिति?
आम्, द्वितीयपङ्क्तिरचयित्रे दत्तम् । कथम्?
यदि भवन्तः सूक्ष्मेन पश्यन्ति, प्रथमपङ्क्तौ कर्कशाक्षराणां बाहुल्यमस्ति, यथा — श, ष, ठ, आदयः । अपि च कर्कशाक्षरैः निर्मितानि सम्युक्ताक्षराण्येव राराजन्ते :) यथा — ष्क, क्ष, ष्ठ, श्च, आदयः । तर्ह्येषा पङ्क्तिरवरुध्यावरुध्य कर्कशतया पठ्यते गीयते च, तन्न सरसमधुरप्रवाहयुक्तम् ।
तथैव, द्वितीयपङ्क्तौ मृदुलाक्षराण्येव दृश्यन्ते यथा — न, स, र, ह, त, आदयः । अपि च नैकमपि सम्युक्ताक्षरं पश्यामः, कर्कशसम्युक्ताक्षराणां तु पूर्णाभावोऽस्ति । तर्ह्येषा पङ्क्तिरनवरोधं तैलधारावत् स्निग्धतया सरसमधुरप्रवाहेण पठ्यते गाीयते च ।

अहो अनन्तस्वारस्यभरितं संस्कृतवाङ्मयम् । यद्येव कश्चिद् धनवान् मम जीवनं प्रायोजयेत, तदाहं संस्कृतास्वादनाध्ययनाध्यापनेषु यापयेयं यावदायुः । कुत आयायादेतावत् सौभाग्यम् !

(Originally posted here: https://qr.ae/TcmKuL Oct 29, 2019)

वेङ्कटेश-सुप्रभातस्तोत्रे बौद्धावतारस्यानुपलब्धिः

सामान्येनाधुना भूयिष्ठाः सनातनधर्मिणः सिद्धार्थगौतमबुद्धं भगवतो विष्णोरवतारमिति मन्यन्ते । परं पुरा न सर्वदा तथा ।
उदाहरणाय, श्रीवेङ्कटेशसुप्रभातस्तोत्रे भगवदवतारगणनायां बुद्धो नाङ्गीकृतः —
“मीनाकृते कमठ कोल नृसिंहवर्णिन्
स्वामिन् परश्वथ तपोधन रामचन्द्र ।
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥”
—अत्रोल्लेखिता अवताराः — मत्स्यः, कूर्मः, वराहः, नरसिंहः, वामनः, परशुरामः, कोदण्डरामः, हलरामः, कृष्णः, कल्किः ।
इदं स्तोत्रं तु चतुर्दशशतमाने रचितं, तावता कालेन तु सर्वेऽपि बुद्धं जानन्ति स्म । परं न सर्वे बुद्धं भगवदवतारं मन्यन्ते ।

(Originally posted here: https://qr.ae/TcmKgm Oct 15, 2019)

कविकुलगुरुः कालिदासो विलासः

महाकविः कालिदासस्तु विश्वप्रसिद्ध इति त्वनुक्त्वैव ज्ञायते । यत्र महामहापण्डिताः महामहाग्रन्थानेव विलिख्य गताः, तत्र कोऽहमल्पमतिः कालिदासविषये शब्दमप्युच्चारितुं? अथवा मत्सदृशा अल्पमतिनैव बालिशान् शब्दानुपयुज्य कोलाहलं कर्तुमेवेदृश्यः अन्तर्जालीयपरिषदः सन्तीति मत्वाऽऽत्मानं सान्त्वये ।
कालिदासस्य बह्व्यः दन्तकथाः सन्त्येव । कस्याश्चिदनुसारेण कालिदासः जन्मतो न प्रतिभावान् कविः। सोऽतिमूर्खः कश्चित्सामान्यः ग्रामीणः सन्नेकदा इध्मकाष्ठाय कस्मिंश्चिद्वृक्षे कस्यांश्चिच्छाखायां तिष्ठन् तामेव शाखां छेत्तुमारभत । दैववशात् कश्चित् पार्श्वागन्तुकपुरुषः तं वीक्ष्य तत्क्षणमेव तं प्रबोध्यापायाद्रक्षितवान् । आनुषङ्गिकया, स पुरुषः तद्राज्यस्य महामात्य आसीत् ।
महामात्यस्य पुत्रः राजकुमार्यामनुरक्तः सन् यया कया विधिना तां परिणेतुकामः पितरं प्रेरितवान् । परं यदा महामात्यः राजानमेतद्विषये अभ्यमन्त्रयत्, राजा तु स्वयं कुमारी वरं वृणुते इत्यवदत् । परं सा त्वतीव विद्यासम्पन्नगर्विता नैकमपि पुरुषं स्वसमानं मत्वा न कमपि वृणीते । अवमानितंमन्योऽमात्यः गुह्येन तमवमानं प्रतीकर्तुमुपायं विचचार । अन्ते एवं करोमीति निश्चयं गतः — राजकुमार्याः गर्वभङ्गं साधितुं कश्चिन्मूर्खशिरोमणिः युक्त्या अतिबुद्धिमद्वत् प्रदर्श्य तस्याः सह विवहितः भवति चेत्, राजकुमारी सर्वदा विनश्यतीति ।
अस्योपायस्य निर्वाहहेतुकोऽभवदस्माकं भविष्यत्कालिदासः । यदा राजकुमारी मूर्खं परीक्षितुं प्रश्नान् करोति स्म, प्रच्छन्न अमात्यः गुह्येन मूर्खायोत्तराणि ददाति स्म । अन्ते राजकुमारी मूर्खस्य ज्ञानं प्रशंस्य तं पतिं वृणोति स्म ।
किञ्चित्कालं सर्वं सौख्येन प्रचलितमासीत् । तत एकदा मूर्खः पतिः उष्ट्रं दृष्ट्वा “उट्र” “उट्र” इत्यवदत् । तच्छ्रुत्वा राजकुमारी अतिविभ्रमिताभवत् । किमयं मे पतिः सुपण्डितः सन्नेतावदपण्डितवद्वदतीति । पुनःपुनः परिशीलनानन्तरं पतिः मूर्ख इति निश्चयं गता दुःखार्ता राजकुमारी स्वां वञ्चितामभिज्ञाय किमिदानीं कर्तव्यमिति सुदीर्घं चिन्तिता । वञ्चकैः पराभवं न भवेदिति सुदृढनिश्चयेन सा पतिं बुद्धिमन्तं कर्तुं तं भगवतीं कालीमुपासितुं प्राचोदयत् । सोऽपि राजकुमारीं प्रति प्रीतिमापन्नः तस्याः दुःखनिवारणार्थं महत्प्रयत्नं कर्तव्यमेव हीति निर्धार्य कस्मिंश्चिन्निर्जनप्रदेशे स्थितं कालीमन्दिरं गत्वा तत्र स्थात्वा चिरकालं देव्या उपासनं कृतवान् ।
मासाः व्यतीताः, वर्षाण्यपि व्यतीतानि । अन्ते तपोतुष्टा देवी तस्मै प्रादुर्भूत्वा वरं वृणीष्वेति कथिता । (अत्र कथायां द्वितीयो भेदः विद्यते यत् राजकुमार्युपदेशानुसारेण मूर्खः कालीमन्दिरं गत्वा यदा देवी संचाराय रात्रौ बहिर्गच्छति तदा मन्दिरद्वारान् अन्तरतो बद्ध्वा देवीमेवावरुध्य वरं बलाद्याचितवानिति । मह्यं तु प्रथमं कथनं रोचते, न द्वितीयं।) मां विद्यावन्तं बुद्धिमन्तं कलावन्तं प्रतिभान्वितं करोत्विति ययाचे । तस्यास्तथेत्युक्तिसत्वरमेव तस्य मुखादपूर्वसौन्दर्यभरितानि स्तुतिपद्यानि निःसृतानि । एतान्येव “श्यामलादण्डकम्” इति स्तोत्रेण प्रसिद्धानि —
“माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासां ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां मनसा स्मरामि ॥
चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुंकुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥”
इत्यादीनि । सम्पूर्णं स्तोत्रमत्र प्राप्यते — https://sanskritdocuments.org/do...
अस्मिन् चलच्चित्रे अस्य सन्दर्भस्य अत्यद्भुतं निरूपणं कृतमस्ति —



एतद्दृष्ट्वा रोमाञ्चनश्च बाष्पेक्षणश्च भवामि प्रतिवारम् !!

तदनन्तरं सः कालिदास इति नाम धृत्वा गृहमागच्छति । पत्नीं राजकुमारीं सुसंस्कृतभाषया आह्वयत्येतैः शब्दैः — “प्रिये ! अनावृतकपाटं द्वारं देहि !” इति । तच्छ्रुत्वा पतिरित्यनभिज्ञायैव सा प्रतिवदति — “अस्ति कश्चिद्वाग्विशेषः !” इति ।
अनन्तरं कालिदासः एतानि पदान्युद्धृत्य त्रयाणां काव्यानामादिमपदरूपेणोपयुयुजे । यथा —
अस्ति” इति पदेन “कुमारसम्भव” महाकाव्यस्यादिमं पद्यम् निर्व्यूढम् —
“अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्यामिव मानदण्डः ॥”
कश्चित्” इति पदेन “मेघदूत” काव्यमारब्धम् —
“कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥”
वाक्” इति पदेन “रघुवंश” महाकाव्यमारब्धम् —
“वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥”

कालिदासस्य वैशिष्ट्यं तस्य सौन्दर्यसूक्ष्मेक्षिका इति मे मतिः । विशेषतः प्रकृतिसौन्दर्यस्य सूक्ष्मविस्तारवर्णनं नान्यः कविः कालिदासरीत्या कर्तुं समर्थः । भाषाप्रयोगास्त्वपूर्वसौन्दर्यभरिताः सन्ति । उदाहरणाय —
१ — अभिज्ञानशाकुन्तलनाटके दुष्यन्तस्य मृगानुसरणसन्दर्भे मृगस्य वर्णनमतिरमणीयमस्ति —
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायं ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥
२ — मेघदूतकाव्ये, एकपक्षे कविः यक्षस्य ध्वनिना वदति, अपरपक्षे यक्षं दूरे स्थित्वा निरीक्ष्य विश्लेषयति —
धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥

कालिदासस्य प्रशंसापद्यानि
अत्रापि नास्ति किञ्चिन्नवीनं निवेदनीयमनिवेदितं पण्डितैः । तर्हि केवलमात्मसन्तुष्ट्यर्थं क्रियतेऽयं शब्दव्यापारः ।
१ — उपमालङ्कारराजोऽसौ कालिदासः । तत्रैकः श्लोको भवति —
“उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥”
२ — चमत्कारपद्यमेकमस्ति —
“पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।
अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥”
३ — जयदेवविरचितं संस्कृतकवीनां वर्णयितृपद्यम् —
“यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो
भासो हासः कविकुलगुरुः कालिदासो विलासः ।
हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः
केषां नैषा कथय कविताकामिनी कौतुकाय ॥”

कालिदासस्यापरा दन्तकथा इत्थं भवति —
“भोजनं देहि राजेन्द्र घृतसूपसमन्वितम् । माहिषं च शरच्चन्द्रचन्द्रिकाधवलं दधि ॥”
इदं पद्यं यदि किंचित् हास्यास्पदमिव दृश्येत् ननु तत्र न कश्चन संशयः स्यात् । बह्व्य एव सन्ति कालिदासस्य दन्तकथाः । इयमप्येका वर्तते यत् केचन नवकवयः भोजराजस्यास्थाने प्रतिष्ठामिच्छन्तोऽचिन्तयन् — “यद्यस्माभिरेकमतिरमणीयं पद्यं रचितं तर्हि राजसम्मुखे तच्छ्रावयित्वा प्रतिष्ठां लब्ध्वा आस्थानकवयो भविष्याम” इति । परं नैव मनोरथः केवलः साधयति काव्यप्रतिभां खलु!
ते नवकवयः प्रथमां तु पङ्क्तिं साधारणामेवारचयन् किंतु नैव पद्यपूरणं कर्तुं शक्ताः । विवशास्ते कालिदासमेवाश्रयन् । स कालिदासः साधारणां तां भोजनभिक्षखाद्यवस्तुवर्णिनीमपि पङ्क्तिं नीत्वा तादृगेव खाद्यवस्तुमाश्रित्यासाधारणां द्वितीयां पङ्क्तिं रराच ।
परं भोजराजः स्वयं किञ्चित्कृतकाव्यपरिश्रमः पद्यस्य प्रथमाद्वितीययोर्पङ्क्त्योर्मध्ये असंरब्धत्वमवगाहयत् । नैकैव शैली दृश्यतेऽस्मिन् पद्ये, द्वितीयायां पङ्क्तौ दध्नः तादृगतिरमणीयं वर्णनं तु केवलं कालिदासस्य कृतिर्भवितुं शक्नोतीति च निश्चयं गतः । तेषां कवीनामनैतिकमाचारं दण्डयितुमिच्छन् राजापृच्छत्तान् कवीन् — “सत्यं वदत कस्येयं कृतिरिति, अथवा मरणमनुप्राप्स्यत” इति । भयभीतास्ते कवयः सत्यमेवावदन् । अतएवोक्तं — “उपमा कालिदासस्य” इति । नान्यः कश्चित्कविरुपमाप्रयोगे कालिदाससमक्षं प्रतिभासति । पुनःपुनरपि पठ्यते, उक्त्वा पुनरालोच्यते मयेयं पङ्क्तिः न संतृप्तिर्नैव श्रमः ध्यात्वा ध्यातुं वास्याः सौन्दर्यम् ॥

(Originally posted here: https://qr.ae/TcmK9h Oct 9, 2019)

अद्वैतसिद्धान्तं प्रति अन्यसिद्धान्तिनामाक्षेपः

अद्वैत-विशिष्टाद्वैत-द्वैतसिद्धान्तानुयायिनां मध्ये तु नितरामेव विवादः प्रचलित एव । तत्र अनद्वैतसिद्धान्तानुयायिनोऽद्वैतं प्रति बहूनाक्षेपान् कृतवन्तः । यदि ते आक्षेपाः विप्रतिपन्नाः सन्ति वा न वा इत्यत्र न विचारणीयम् । न चाहं वेदान्तसिद्धान्तेषु वाचस्पतिमिश्रवद्वा माधवाचार्यवद्वा परिच्छेदसमर्थः ।
तर्हि यथामतिविरिचितं ममैकं पद्यमत्र प्रस्तुतमस्ति —
अद्वैतखण्डनम्
नेति नेतीति निगमबद्धवचनं
जगन्मिथ्येति ब्रह्मसत्ताप्रवचनम् ।
तस्मिन्नपि रूपरसगुणनिषेधः
शून्याराधनोऽयं पुमान् मोहमेधः ॥

(Originally posted here: https://qr.ae/TWAr19 Oct 8, 2019)

सुप्रभातम्

ब्रह्मा मुरारि त्रिपुरान्तकारी
रविः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनिराहुकेतवः
कुर्वन्तु सर्वे मम सुप्रभातम् ॥
(साम्प्रदायिकः सुप्रभातश्लोकः)

(Originally posted here: https://qr.ae/TcmK9s Oct 8, 2019)

"अभिराम" शब्दस्य साहित्ये विरलत्वं; अपि च वेदे, काव्ये, स्तोत्रे उदाहरणानि

“अभिराम” इति पदं केनचित् कारणेन किञ्चद्वैशिष्ट्यं धरति, अतो ह्येव साहित्ये तस्योपलब्धिरप्यतिविरला ।
“अभि” इत्युपसर्गस्तु न केवलं प्रसिद्धः, अपि च प्राचुर्येनोपलब्धः साहित्ये । यथा — अभिषेक, अभिवाद, अभ्यागत, अभिप्राय, अभिनन्द, अभीक्षा, अभिमन्त्रण, अभ्युदय, इत्यादि ।
“राम” इत्यस्य पदस्याप्युपयोगः प्रभूततया विद्यते एव । यथा — विराम, आराम, उपराम, इत्यादि। अस्य धातु: “रम” इत्यस्यापि बहवो रूपाः दृश्यन्ते, यथा — रमा, रमणः, रमणीय, रम्य, इत्यादि।
परं “अभिराम” पदस्य केवलं द्वित्राण्येवोदाहरणान्युपलभ्यन्ते — आश्चर्येण, वेदमपि गणय्य !
अत्र, यथाज्ञानं साहित्ये “अभिराम” पदस्योदाहरणानि दास्यामि ।
ऋग्वेदे —
ऋग्वेदे ममाल्पज्ञानावधौ त्वेकवारमेव “अभिराम” शब्द आयाति — षष्ठमण्डलस्य सप्तदशसूक्तस्य षष्ठ्यामृचि । भरद्वाज बार्हस्पत्य ऋषिः, इन्द्रो देवता, त्रिष्टुप् छन्दः —
“तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः ।
और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान् ॥”
यद्यपि सायणभाष्ये न “अभिरामासु” इति पाठः, तत्र “दंसनाभिः आमासु” इत्येव । केवलं सन्धिश्रवणमात्रेण तत्र “अभिरामासु” इत्याभासः । तर्ह्यशास्त्रविदः, अपरम्पराविदः स्वयमेव वेदार्थानुद्घाटितुं गच्छन्तः तत्रानुचितं पदपाठं कृत्वा, “दंसनाः अभिरामाः इति दंसनाभिरामाः, तासु” इत्यप्यर्थं कृत्वा वेदार्थं वक्रीकारयन्तोऽपि सन्ति जनाः ।
तथापि, अस्यामृचि “दंसनाः अभिरामाः इति दंसनाभिरामाः, तासु” इति पाठः क्वचित् क्वचिदुचितः इति प्रतिभाति मे । इन्द्रस्य दंसनाः अर्थात् कर्माणि, अभिरामाः अर्थात् सुन्दराणि सन्तीति अर्धार्थं कृत्वापि सन्तृप्ताः भवितुं शकेम । तर्हि ऋचोऽर्थमीदृशं भवति — “हे इन्द्र, तव ज्ञानेन तव सुन्दरेषु कर्मसु (दंसनाभिरामासु) शक्त्या पक्वं अर्थात् फलवन्तम् दुग्धं नि दीधः अर्थात् अधारयः” इति । इदं तु भागशः विनोदार्थमपि कृतम् ।
काव्ये —
कविकुलगुरोर्कालिदासस्य “अभिज्ञानशाकुन्तल”नाटके प्रथमेऽङ्के एकवारं “अभिराम” शब्द आयाति।
तत्र रथेन सूतेन च मृगानुसारी राजा दुष्यन्तः सूतं प्रति वदति —
“सूत, दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि,
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायं ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥”
इत्यत्र कृष्णमृगः राज्ञः शरपतनभयात् कीदृक् सुन्दररीत्या ग्रीवां भङ्गीकरोति, तस्य मुखादर्धजग्धतृणखण्डाः कीदृक् पतन्ति, कीदृक् तस्य तीव्रप्लुतत्वात् आकाशे एवोड्डयति न भूम्यां धावतीति सर्वं वर्णितम् ।
स्तोत्रे —
श्रीवेंकटेशसुप्रभातस्तोत्रं त्वतीव सुन्दरं विलक्षणं च काव्यं लोकविख्यातमेव । एतत् पञ्चदशशतमाने श्री “प्रतिवादिभयङ्कर” अनन्ताचार्यवर्येण रचितं, अतीवार्थगाम्भीर्येण भरितं च, अतिविलक्षणकाव्यभाषाश्रयं चास्ति ।
तस्मिन् चत्वारः भागाः सन्ति — “सुप्रभातं”, “स्तोत्रं”, “प्रपत्ति:”, मङ्गलाशासनं” चेति ।
तत्र स्तोत्रभागे एकस्मिन् श्लोके “अभिराम” शब्द एकवारमायाति ।
श्रीवेंकटेशस्तोत्रे षष्ठः श्लोकः —
अभिराम गुणाकर दाशरथे जगदेकधनुर्धर धीरमते ।
रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥

इति सम्पूर्ण संस्कृतसाहित्ये ममाल्पज्ञानपरिध्यां केवलं त्रिवारमेव “अभिराम” शब्दः दृष्टः ।

(Originally posted here: https://qr.ae/TcmKBb Sep 20, 2019)

"कर्म वा स्वधा वा" -- मम पुरातनः प्रथमकाव्यप्रयत्नः

यदाहं प्रथमं संस्कृतभाषामध्येतुमारब्धवान् पञ्चम्यां वा षष्ठ्यां वा कक्षायां, मनोल्लासस्य सीमां नापश्यम् । यथा जन्मान्तरः कश्चनानुरागश्चानुबन्धश्च पुनराविष्कृत इवान्वभवम् । तत्क्षणादेवाभासितं यदियं संस्कृतभाषा मम जन्मजन्मान्तरप्रियतमा इति । छात्रः सन्नपि इयं भाषा मह्यं अपरिचिता इति कदाचिदपि नान्वभवम्, सर्वदा जानन्नेवासम्, केवलं पुनःस्मरणमेव करणीयमित्येव भासते स्म, न च आदितः अवगन्तव्यमिति ।
तर्हि यंकमपि संस्कृतवाक्यं यतोकुतो वा पठनीयमिति मनोऽकरोत् । तत्पश्चात् शनैःशनैः ग्रन्थानध्येतुं यते स्म । काव्यान्यपि किञ्चिदत्रतत्र रसयितुमयते ।
पद्यानि लिखितुमपीषदीषत् प्रयत्नं कृतवान्, न तादृक् साफल्यं प्राप्तं यादृशा “अधमकविः” इत्यपि अन्वभवितुम् । तस्मै विशेषेण साधना कर्तव्या, अध्ययनं च कर्तव्यं, अलङ्कारशास्त्रं पठनीयं, छन्दःशास्त्रं हस्तगतं कर्तव्यं, पूर्वकवीनां कृतयः पुनःपुनरप्यवलोकनीयाः। एतत्सर्वं कृत्वापि न सर्वः कविर्भवितुं शक्नोति, अन्तःप्रचोदनं किमपि अनिवार्यं, यथैव न सर्वोऽपि गायको वा नर्तको वा वैज्ञानिको वा भवितुमर्हति ।
यद्यपि पद्यकाव्यरचना न सौकर्येण साध्या, गद्यमेव काव्यमयरीत्या लिखितुं तु अधिकतरैः लोकैः साधितं भवेत् । छन्दोनियमाभावात्, वाक्यान्येव सरसभाषया लिखितुं न तावान् क्लेशः । पूर्वादपि गद्यकाव्यपरम्परा अस्ति देववाण्याम् ।
अस्तु तावत् । इदानीं, ममैका पुरातना तुच्छतमा निकृष्टतमा केवलकाव्याभासा कृतिरत्र प्रस्तूयते । न छन्दःसौष्ठवमस्ति, न वा भाषासौष्ठवम् — कृपया क्षम्यताम् !!
“कर्म वा स्वधा वा”
किंस्विद्गुरुतरं कर्मस्वधयोरनयोस्सखे ।
किमाश्रित्य मनुष्यस्य जीवितं साधितं भवेत् ॥१॥
जन्मनिजन्मनि यद्यच्चेष्टितं कार्यं भुवि ।
मानवैस्सुकृतमुताहो दुष्कृतं कार्यं कृतम् ॥२॥
कृतस्यैव हि कार्यस्य तस्योदयते तु फलम् ।
सद्ये वा जन्मन्यथ वा जन्मस्वागामिनेषु वै ॥३॥
यानि कर्माणि सद्यैव फलायन्ते स्वरूपतः ।
तानि व्यावहारिकाणि कथ्यन्ते भौतिकानि वा ॥४॥
तान्यपराणि कर्माणि अव्यावहारिकाणि तु ।
येषां नैव फलं प्राप्तमिदानीन्तनजन्मनि ॥५॥
तेषां फलसमूहं हि दैवमित्यपि कथ्यते ।
प्रारब्धसञ्चितागामिन् विभक्तं हि कर्म त्रिधा ॥६॥
पूर्वाणां हि जन्मनां यत्कर्मणां प्रारभ्यते तत् ।
फलमधुना जन्मनि प्रारब्धमभिधीयते ॥७॥
पुनः पूर्वाणां जन्मनां जन्मन्यागामिनि हि यत् ।
फलकर्मविकसनं ज्ञातस्तदागामिन्निति ॥८॥
यदद्यावधिजन्मनि क्रियते कर्माणि पुमान् ।
क्रियते फलसञ्चयं भविष्याय तत्सञ्चितम् ॥९॥
अन्या त्वेभ्यो सा ज्ञाता या स्वधेति कथिता हि ।
स्वेच्छा त्वस्यापरं नाम स्मृता चात्मशक्तिरिति ॥१०॥
ममैवेयमस्ति बुद्धिर्ममैवाप्यस्तीदं मनः ।
चित्तञ्च मे स्मृतिश्च मे ममैव जीवितमिदम् ॥११॥
यद्यत्कार्यं सङ्कल्पये तत्तदेवाचराम्यहम् ।
यत्स्वहस्तगतान्येव सर्वाणि निश्चयानि वै ॥१२॥
अतो कुत्रचिन्नैव दैवहस्तक्षेपं दृश्यते ।
यद्यत्कार्यमाचरितं मया स्वेच्छाशक्तिना ।
तस्यतस्यैव जानन्हि सम्यगाचरामि फलम् ॥१३॥
कोऽस्ति दर्शय हे सखे तादृक्कर्मवान्पुमान् ।
यस्य स्वकर्मणा जातु स्वकल्याणं न कुरुते ॥१४॥
तत्त्वन्यः विषयो हि यत्किंकिं कल्याणकरं भुवि ।
परमेकैकोऽपि नरो स्वे स्वे कल्याणे नियुङ्क्ते ॥१५॥
अपि प्राप्स्यति स्वस्य विपाकसमये फलम् ।
इत्येवं प्रवर्तितं लोकमागच्छति दैवं कुतः ॥१६॥
आलस्यस्यैव साक्षात्ते ये के दैवपरायणाः ।
मूर्तयोऽप्रयत्नशीलाः यद्भवति भवत्विति ॥१७॥
कथं वयं विजानीमो यत्पूर्वमपि जन्मिनः ।
न कमपि पश्यामः यो पूर्वजन्म स्मर्यते ॥१८॥
इदं जन्म प्राप्तमस्मिन् कर्मण्यधिकारश्च मे ।
वित्तार्जनं करिष्ये सौख्यं जीवनं नयिष्ये ॥१९॥
तर्हि कुतोऽयमागच्छत्पूर्वजन्मफलभोजनम् ।
यस्मिन्नः नैव जानीमो कानि कृतानि कर्माणि ॥२०॥
एवंविधं हि चिन्तनं तेषां ये स्वेच्छजा इव ।
पुनः प्रश्न उदीषति किमेतयोर्बलीयसम् ॥२१॥
अपीदं सत्यमेव यल्लोके कश्चिद्दरिद्रो हि ।
स्वाकिञ्चनत्वं कर्मणि स्वस्याध्यारोपयति ॥२२॥
अहि किञ्चत्महत्पापं विसृष्टं हस्ताभ्यां मम ।
पूर्वजन्मन्यतो दैन्यभागिति तिष्ठति चिन्तयन् ॥२३॥
पुनः स पुमान्यो लक्ष्मीं निवासयति शाश्वतम् ।
नन्दत्येव स्वैश्वर्ये किमस्ति चिन्ताकारणम् ॥२४॥
बतास्माभिर्परिश्रमं यथाशक्तिर्हि कार्यते ।
तर्हि यथापरिश्रमं वित्तं भुञ्जाम स्वार्जितम् ॥२५॥
कञ्चिदुद्योगिनं पुरुषमागच्छेत यशः क्वचित् ।
अहो महासौभाग्यं ममास्तीति स नन्दति ॥२६॥
पुनस्तादृक् श्रमी कर्मी नैव प्राप्येत तद्यशः ।
किमर्थं श्रमणं कार्यं मया निर्गतभाग्येन ॥२७॥
आतपतापपजले कस्मिंश्चित्काननह्रदे ।
जीवापायसंमुखोऽसौ झषराजोऽस्ति किंकरः ॥२८॥
सन्त्यत्रतत्रैव केचित् क्षुद्रक्षुद्रा जलाशयाः ।
अस्मादुत्प्लुत्य जलाशयादमुकं मीनः गच्छति ॥२९॥
नैव जानाति तन्मत्स्यो उत्कूर्दन्नितस्ततः ।
कतमः जलाशयः श्रेष्ठः कोऽस्ति नीरबहुलः ॥३०॥
तर्ह्यपि प्रयत्नशीलो आशावाननवसादी ।
अन्वेष्टव्यं विशालतरमन्यमेव जलाशयम् ॥३१॥
इति निश्चित्य सुदृढं गच्छेन्नैव दैववशम् ।
यदि भाग्यवानस्ति मत्स्यः जीविष्यति पुनस्सरे ।
यदि नैव दैवजुष्टः विवशः म्रियते पुनः ॥३२॥
अप्येतादृग्भवेद्यस्मात्पुमान् प्रेयो न प्राप्नुयात् ।
श्रेयो हि लब्धं तेनैव विना याच्यमानेन ॥३३॥
अतो नैव सर्वदा हि दैवं दुष्येन्मानवः ।
कदाचिद्वरतरं दैवं तुल्यमानं तु स्वेच्छया ॥३४॥
तापं यच्छेज्जलं यच्छेन्नैवातिमात्रमुभयोः ।
तदा सस्यः भवेद्द्रुमः अथवा मरणमियात् ॥३५॥
स्वधया कुर्यान्नरः कर्म दैवं चाप्यनुसरेन्नरः ।
उभयोर्यन्मिश्रितं फलं जानीयात्तं श्रेष्ठं सिद्धिदम् ॥३६॥

(Originally posted here: https://qr.ae/TWyfha Sep 7, 2019)