Saturday, March 7, 2020

माधवसायणयोः प्रशंसापद्यद्वारा लघुचरित्रचित्रणम्

पूर्वमेव महानुभावानां श्रीमन्माधवाचार्य-स्वामीविद्यारण्यस्य च श्रीमत्सायणाचार्यस्य च माहात्म्यमुल्लेखितमत्र —
पुनरुक्तिदोषमपि सोढ्वा वदामि माधवसायणयोः महाकर्तृत्वस्य स्मरणं भारतीयैः विशेषतः सनातनधर्मिभिर्नैव संकोचयेत् । एतयोः स्मरणं पूजनं संकीर्तनं च भगवदवतारवत् कर्तव्यमिति ममाभिप्रायः यतः एतयोर्परिश्रमेण विना साधनया विना, अधुना सनातनधर्मः नैव स्यात् ।
एतयोः युगपुरुषयोः बहुमुखप्रतिभान्वितचारित्र्यं च निजकुटुम्बवर्णनं च कतिपय श्लोकेषु द्रष्टुं शक्नुमः ।
श्रीमन्माधवाचार्यस्य पराशरस्मृतिव्याख्याप्रस्तावनाया उद्धृतं श्लोकद्वयम् —
श्रीमती जननी यस्य सुकीर्तिर्मायणः पिता।
सायणो भोगनाथश्च मनोबुद्धिसहोदरौ॥
यस्य बौधायनं सूत्रं शाखा यस्य च याजुषी।
भारद्वाजं कुलं जन्म सर्वज्ञः स हि माधवः॥
इत्यत्र श्रीमन्माधवाचार्यस्य प्रावेशिकपरिचयं दत्तम् — प्रप्रथमं तु गौरवेण मातां श्रीमतीमेवोदाह्रियते ततो तातं मायणम्। तस्य द्वौ भ्रातरौ सायणभोगनाथौ परस्परमन्योन्यसम्बन्धिनः त्रयोऽपि मनसा बुद्धिर्यथा । तस्य स्वशाखा कृष्णयजुर्वेदः यतो प्रथमं वेदभाष्यं तैत्तिरीयस्यैव लिखितं । भारद्वाजगोत्रं, बौधायनसूत्रपद्धतिः ।
श्रीमत्सायणाचार्यस्य काव्यप्रतिभानिदर्शनाय कतिपयपद्यानि ’सुभाषितसुधानिधि’ इत्येतस्माद् ग्रन्थादुद्धृतानि —
वीरश्रीकम्पराजोऽस्ति विदुषां सञ्चरन्निधिः ।
यत्कीर्तिकामिनीहस्ते ब्रह्माण्डं कन्दुकायते ॥
समुद्रामुद्रितान् कृत्वा प्रायः प्रत्यर्थिपार्थिवान् ।
समुद्राधिपतिर्योऽभूत् नाम्बुधीशतया परम् ॥
(अत्र प्रथमकम्पणराजस्य प्रशस्तिर्विद्यते — “समुद्रामुद्रितान् कृत्वा” इत्यत्र अन्यराजानः स्वमुद्रया दमयति अतो तस्य समुद्राधिपतिर्नाम न केवलं पूर्वापरसमुद्रमध्यस्थभूपतिरिति श्लेषं कृतम् )
कम्पक्षितीशमनिशं कथयन्ति सन्तः
सङ्गीतदुग्धजलधेरुदितं सुधांशुम् ।
साहित्यमानससरोवरराजहंसं
संग्रामरङ्गनटनस्थितिसूत्रधारम् ॥
जित्वा यत्र पुरत्रयं सरथिको धन्वी न्यधात्साधनं
सर्वे कम्पमहीप निश्चिनुमहे त्वय्येव देवश्चिरात् ।
सूतं चेतनया तुरङ्गनिकरं वाचा रथाङ्गे रुचा
चापं धीरतया भुजेन च गुणं बाणं प्रतापेन च ॥
(अत्र कम्पणराजस्य पराक्रमं साक्षात् महादेवस्यायुधपरिकरैः सह तुलितं — चेतना सारथिना, वाक् अश्वैः, रुक् रथचक्रैः, धैर्यं धनुषा, भुजबलं गुणेन, प्रतापं बाणेन च )
श्रीमत्सायणाचार्यस्य वेदभाष्यकर्तृत्वनियोजनस्य सन्दर्भः तैत्तिरीयभाष्यप्राक्कथनादुद्धृताः श्लोकाः —
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
(अयं तु सुप्रसिद्धः श्लोकः सर्वेषु सायणवेदभाष्येषु प्रस्तावनायामायाति )
यत्कटाक्षेन तद्रूपं दधद्बुक्कमहीपतिः ।
आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने ॥
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुर्माधवाचार्यो वेदार्थं वक्तुमुद्यतः ॥
स प्राह नृपतिं राजन् सायणार्यो ममानुजः ।
सर्वं वेत्त्येष वेदानां व्याख्यातृत्वेन युज्यताम् ॥
इत्युक्तो माधवाचार्येण वीरबुक्कमहीपतिः ।
अन्वगात्सायणाचार्यं वेदार्थस्य प्रकाशने ॥
श्रीमन्माधवसायणयोः निजकुटुम्बचित्रणमेतेषु दृश्यते (अलङ्कारसुधानिधि ग्रन्थादुद्धृताः) —
मातर्मानय पादपद्मरजसा मौली ममाश्लिष्यतां
तात त्वं च समेधयालकगतां प्रीतिं नखज्योत्स्नया ।
अम्ब त्वं कपिले गृहाण यवसग्रासान्ममार्घानुगान्
इत्याराधयतीश्वरं गुरुजनं गां चान्वहं सायणः ॥
वत्स व्यञ्जय कम्पण व्यसनितां सङ्गीतशास्त्रे तव
प्रौढं मायण गद्यपद्यरचनापाण्डित्यमुन्मुद्रय ।
शिक्षां दर्शय शिङ्गण क्रमजटाचर्चासु वेदेष्विति
स्वान् पुत्रानुपलालयन् गृहगतस्सम्मोदते सायणः ॥
(प्रतिदिनं प्रातः मातरं प्रणमति तस्याः पादधूलिः स्वशिरसि सदास्त्विति, तातं प्रणमति तस्य पादनखपरावर्तितज्योतिरुदयकालं सूचयत्विति, गृहे स्थितां गोमातरमपि पूजयति, तस्यै यवसग्रासान् ददाति च । स्वपुत्रान् त्रीन् स्वस्वरुच्यनुसारेण प्रोत्साहयति — कम्पणस्य सङ्गीतरुचिः, मायणस्य काव्यरुचिः, शिङ्गणस्य वेदशिक्षाशास्त्ररुचिः )
सायणाचार्यस्य मन्त्रिपदे शासननिपुणतायाः प्रशंसा —
सत्यं महीं भवति शासति सायणार्ये सम्प्राप्तभोगसुखिनः सकलाश्च लोकाः ।
तद्वैरिणस्तदपि शैलवनान्तरेषु शुष्यन्त्यमन्दमुखनिःश्वसिताः क्षुधार्ताः ॥
लक्ष्मीस्ते मन्त्रशौर्याभ्यां अहितेभ्यस्समाहिता ।
आहृता त्यागभोगाभ्यां अद्भुतं सायण प्रभो ॥
भो भो सायणमन्त्रिशासनमिदं भूमौ समुद्घुष्यतां ।
ये ये स्वामिनि सङ्गमक्षितिपतौ सेवानभिज्ञा नृपाः ॥
शौर्योच्छृङ्खलसङ्गमेश्वरसाम्राज्यसम्पादन-
प्रोद्यत्सायणमन्त्रिरभसक्षुण्णक्षमासम्पदां ।
गूढं काननगह्वरेषु चरतामस्माकमत्युन्नतै-
रेभिः किं घनगर्जितैर्वनगजैः किं वा सहर्षैर्हयैः ॥
सायणाचार्यस्य युद्धशौर्यमपि संदिश्य कतिपय श्लोकाः —
गर्जद्दुर्जयगन्धसिन्धुरघटासंघट्टनष्टाष्टदि-
क्क्रुद्धस्सान्द्रतुरङ्गहेषितरवैर्ग्रस्तान्यघोषोदयः ।
धाटीमोटनलम्पटोद्भटभटव्याधूतधूलीभर-
च्छन्नव्योमपथो विनिर्जिगमिषत्युर्वीजये सायणः ॥
दिष्ट्या दैष्टिकभावसम्भृतमहासम्पद्विशेषोदयं ।
जित्वा चम्पनरेन्द्रमूर्जितयशः प्रत्यागतस्सायणः ॥
(अत्र विशेषतः गरुडनगरस्य राजा चम्परायस्योपरि एकाङ्गेः सायणाचार्यस्य विजयः सूचितः )
येन निर्मायते नित्यं धनैरायोधनैरपि ।
श्रेयसे यशसे दानं विदुषां विद्विषामपि ॥
मेरुणा सदृशं रूपं सत्यं सायणमन्त्रिणः ।
तव रूपमिवाचार आचार इव ते यशः ॥
पावकस्य यथा तेजः प्रसादः शशिनो यथा ।
तथा तवापि मन्यन्ते सायणार्य मनीषिणः ॥
त्यागे भोगे तथाचारेष्वाहवेषु हवेषु च ।
सायणार्यसमो लोके सायणार्यो न संशयः ॥
स्वामी विद्यारण्याय नमः श्रीमत्सायणाचार्याय नमः ।

(Originally posted here: https://qr.ae/TJoe3A Sep 6, 2019)

प्रातःस्मरणीयानां भारते विस्मरणं अतीव दुःखप्रदः खेदकारी विषयः

अधुना भारते कति जनाः जानन्ति वा स्मरन्ति वा एतौ नरनारायणरूपिणौ — स्वामी विद्यारण्यं च श्रीमत्सायणाचार्यं च ?
वामहस्तगण्यसङ्ख्याकाः केवलम् ।
एतयोर्महापुरुषयोः सदृशः नान्यः कश्चिद्विद्यते भारतस्यार्वाचीनेतिहासे । प्राचीनकाले गतसप्तसहस्रवर्षेषु केवलौ द्वावेव दृश्यतः — भगवान् वासुदेव कृष्णः, भगवान् चाणक्यश्च ।
एते चत्वारः युगपुरुषाः कृष्णचाणक्यविद्यारण्यसायणाः सर्वेभ्योऽन्येभ्योऽधिकतरं सर्वतोमुखप्रतिभान्विताः न केवलमेकदेशीयः, अपि त्वनेकविधोपकाराण्यस्माकं सभ्यतायै संस्कृत्यै च कृतवन्तः, यथा न केवलं राजनीत्यां, परंतु साहित्ये, संस्कृत्यां, संगीतनाट्यकलादिषु, धर्मशास्त्रे, योगशास्त्रे, अध्यात्मशास्त्रे चापि तेषां केनचित्प्रकारेण योगदानमासीत् ।
यद्यपि कृष्णः चाणक्यश्च स्वस्वतत्कालसमाजे महत्प्रवर्तनं च धर्मपुनरुत्थानं च कृतवन्तौ, तयोः कालयोः सनातनधर्मः न तावान् च्युत आसीत्, यावान् माधवसायणयोर्काले आसीत् ।
यदि विस्तरेण पश्यामः, श्रीकृष्णस्य कालस्तु साक्षाद्वेदकालः । धर्मः सामान्यतः जनेषु सुदृढश्च स्वनुष्ठितश्चासीत् । भरतखण्डस्य सीमाः सुरक्षिता आसन् । वर्णाश्रमव्यवस्था सुखप्रदा च व्यक्तिगतगुणकर्माश्रिता चानत्याचारिणी चासीत् । बाह्याक्रमणाभावात् तदुत्पन्नानामापत्तीनामपि बाधा नासीत्। तर्हि केवलं दुर्योधनस्याहङ्कारं, शकुनेर्कूटनीतिं च, धृतराष्ट्रस्यान्धपुत्रमोहं च तस्य प्रजाहितोपेक्षां चेत्यासां समस्यानां समाधानेन सर्वं सौष्ठवं च योगक्षेमं च प्राप्यते इति दृढपरिज्ञानेन श्रीकृष्णः स्वकार्यमकरोत् ।
चाणक्यस्य कालेऽपि नात्याधिकाः बाह्यपरीक्षाः आगच्छन् । नन्दवंशस्त्वन्तिमकलायां स्थितः, महापद्मनन्दस्यैवोत्खननाद्वंशनिर्मूलनं साधितं चाणक्येन, तत्पश्चाद्योग्यः गुणोपेतः चन्द्रगुप्तः राजपदे स्थापितः । परंतु प्रभूततया देशः दृढकाय एवासीत्, अपि च स्वदेश-स्वधर्म-स्वकर्तव्य-विषये जनानां सामूहिकसंज्ञानं च सांस्कृतिकमैकमत्यमासीत् । यतः सर्वजनाः जानन्ति स्म किं राष्ट्रस्य साध्वसाधु च हितमहितं च, तस्मात्ते सर्वेऽप्यैक्येन राजानं सहकुर्वन्ति स्म । तस्मादेव यदा यवनराज अलक्षन्दरस्य दण्डयात्रा भारतस्यान्तःप्रदेशमागच्छत् चन्द्रगुप्तचाणक्ययोर्नेतृत्वे तस्य सुलभेन निरासोऽभूत् । केवलं भारतस्य वायव्यकोणे स्थितान् क्षुद्रगणराज्यानेव पराभवितुमशक्नोत् ।
अथ आगच्छामो चतुर्दशशतमाने विद्यारण्यसायणयोर्काले । तत्कालात्पूर्वमेव दशमशतमानप्रभृत्येव मुस्लिमानामाक्रमणं वायव्यदिशि प्रारब्धम् । प्रथमं तु मुहम्मद् बिन् कासिम्, ततः सुबुक्तिगिन्, ततः अल् हज्जाज्, ततः महमूद् गज्नवी, ततः मुहम्मद् घोरी, इत्यादयः घोरातिघोराः, बर्बरताचरमसीमाः, असभ्याः, धूर्ताः, अमानुषक्रूरकर्मिणः, कपटयुद्धतन्त्राः पुङ्खानुपुङ्खं वारंवारमाक्रम्य क्रमेण गन्धार-सिन्धुसौवीर-पञ्चनदराज्यानि घातयित्वा तत्रतत्र मुस्लिमराज्यानि स्थापितानि । अस्य न तात्पर्यं यत् हिन्दूराजानः निरस्त्राः भूत्वा तेभ्यः म्लेच्छेभ्यः शिरं नत्वा समर्पितवन्तः -- शुद्धत्रिशतवर्षकालं ते परमवीरोचितरीत्या प्रतियुध्यन्ते स्म, परं सम्पूर्णतया तेषां म्लेच्छानां निरासने असफला अभूवन्, प्राणत्यागं कृत्वा वीरस्वर्गं प्राप्ताः । अत्र हिन्दूराज्ञामपि दोषोऽस्ति यत्ते न सम्पूर्णतया परस्परेण मिलित्वा ऐक्येन प्रतियुध्यन्ते स्म, अपितु परस्परमपि राज्याकाङ्क्षया प्रतिद्वन्द्विनः सन्तः, तेभ्यः समानशत्रून् म्लेच्छानगणयित्वा महान् प्रमादः कृतवन्तः । क्रमेण मुस्लिमानां व्याप्तिः भारतस्य हृदयदेशानागता । देहल्यामपि मुस्लिमशासनमभूत् । तावता कालेन भारतस्यान्तर्देशेषु एकोऽपि बहुसमर्थः हिन्दूराजा नासीत्, तर्हि एकमन्वेकः राजा पराजितः, हतश्च । तदनु सहस्रशः हिन्दवः बर्बरतया समूहेन हताः अथवा बलात्कारेण वा, "जजिया"करद्वारा वित्तविवशतया वा इस्लाम् मतान्तरिताः ।
एतस्मिन् सर्वत्रकोलाहलस्थितौ सन्दर्भे होय्सळराज्ये जातौ भ्रातरौ माधवसायणौ । वैदिकपरम्परायां जातौ सुपण्डितौ, वेदार्थज्ञानिनौ, मेधाविनौ, जगद् व्यवहारपरिज्ञानिनौ च सन्तौ, तौ दक्षिणभारतेऽपि व्याप्तं मुस्लिमाघातं दृष्ट्वा गाम्भीर्येण विचारितवन्तौ इति विद्यते ।
तस्मिन्नेवावधौ, होय्सळेश्वरः वीरबल्लाळः मदुरा सुल्तान घियासुद्दीनेन हतः, तस्य राज्यं च विदीर्णं, तस्माद्दक्षिणदेशेष्वपि हिन्दूनामरक्षितत्वस्थितिरापन्ना । अपरत्र, द्रविडदेशे, तंजावूर-राजानं हत्वा, तस्य मांसं पाचयित्वा, तं राज्ञीराजपुत्रेभ्यश्च बलात्कारेण खादितुं दत्तम् । तदनन्तरं, राज्ञः चर्मकाये तृणं भरित्वा, तं नगरस्य मुख्यप्राकारे प्रदर्शनाय विलग्नम् ।
एतादृशी ऊहातीतबर्बरता कृता, एतैः राक्षसम्लेच्छैः ! अस्मदीयैः सुसभ्यैः सुसंस्कृतैः जनैः कथं प्रतिक्रियां कर्तव्यमित्येव चिरकालं न ज्ञातम् । तर्ह्येव मुस्लिमानां घोरातिघोरहिंसायाः विरोधमपि कर्तुमशक्ताः हिन्दवः ।
एतस्मिन् कलिदुष्प्रभावप्रत्यक्षे काले, दैवानुग्रहात्, माधवाचार्यस्य हरिहर-बुक्करायाभ्यां सह मिलनमभवत् । पूर्वमेव तौ भ्रातरौ होय्सळेश्वरस्य राज्ये पाल्याधिकारिणावास्ताम् । तौ युद्धे परास्तौ देहलीं नीत्वा तत्र इस्लाम् मतान्तरितौ, तयोः शिश्नचर्मपरिच्छेदनं च कारितं । एतत्सर्वं क्लेशं सोढ्वाऽपि स्वहिन्दूधर्मनिष्ठामत्यक्त्वा, तौ महान्तौ भ्रातरौ स्वमातृभूमिं कथंचिदपि पुनरागत्य, माधवाचार्येण सह मिलितौ । माधवाचार्यस्य नेतृत्वे, दक्षिणभारते पतितान् सर्वान् राज्यानेकीकृत्य,सुदीर्घपरिश्रमेन महत् विजयनगरराज्यं स्थापितम् ।
विजयनगरस्य स्थापनं तु प्रत्यक्षेन, परिभाषातः, वैदिक सनातनधर्मस्य संरक्षणार्थमिति ऐतिहासिकसत्यम् । यदि विजयनगरस्य स्थापनं नाभविष्यत्, तर्हि दक्षिणभारते हिन्दूधर्मः सम्पूर्णतः विनाशमियात्, अपि चाद्य हिन्दूधर्मः नैव स्यात् । राजनैतिकसुरक्षा प्राप्तायां, सर्वतोमुखी प्रगतिः साधिता । साहित्यसंगीतकलासूच्छ्रायता प्राप्ता । वाणिज्यं समृद्धिं प्राप्तम् । राज्यं शनैः विस्तारं प्राप्तम् । राजा कुमारकम्पणः पराक्रमेण मदुराराज्यं मुस्लिमशासनात् मोचितवान् । राज्ञः पत्नी गङ्गादेवी स्वयं प्रतिभाशालिनी संस्कृतविदुषी, पत्युर्पराक्रमं च मदुरानिवासिनां मुस्लिमशासने दीर्घयातनाश्च साक्षाद्दृश्यरमणीयरीत्या "मधुराविजयम्" इत्यस्मिन् काव्ये निबद्धाः । विस्तारतमे काले सर्वं दक्षिणापथः विजयनगरसाम्राज्यमेवासीत् । श्रीकृष्णदेवरायः विजयनगरस्य मध्यकालस्यातिकीर्तिमान् सम्राडासीत्। तस्योपाधिषु सन्त्येताः -- "हिन्दूरायसुरत्राणः" च "तुरुष्ककाननदवानलः" चेति ।
माधवाचार्य एव संन्यासाश्रमं गत्वा प्रसिद्धः स्वामी विद्यारण्यनाम्ना प्रख्यातः । तस्य भ्राता च श्रीमत्सायणाचार्यो सम्पूर्णवेदवाङ्मये भाष्याणि लिखित्वा वेदसंरक्षणमकारि । यदि स वेदभाष्याणि नाकरिष्यत्, अधुनास्मभ्यं वेदज्ञानस्य नवनवतिः प्रतिशतं भागं शाश्वतं विलुप्तमेवाभविष्यत् । स्वामी विद्यारण्यः शृङ्गगिर्यां शाङ्करमठस्याधिपतिर्भूत्वा कार्यनिर्वाहत्वमतीवनिपुणत्वेनाकरोत् । तस्यैव श्रेयःप्रभावात् शृङ्गगिरिमठं गुरुत्वं च राजसम्मानं चाप्नोत् ।
यदि स्वामी विद्यारण्यश्च श्रीमत्सायणाचार्यश्च न प्रादुरभविष्यन्, निश्चयेनास्माकं भारतीय वैदिक सनातनधर्मः शाश्वतमस्तमगमिष्यत् । विजयनगरस्यैव व्यवस्थामाधारीकृत्य शतमानानन्तरं शिवाजी महाराजः हिन्दूराज्यस्य विस्तारं बहुगुणं कृतवान् ।
अतएव एतौ द्वौ नरनारायणरूपिणौ माधवसायणौ नित्यं प्रातःस्मरणीयौ सर्वैः भारतीयैः ।
आगामिनि लेखने माधवसायणयोः प्रशंसापद्यान्युदाहरिष्यामि ।

(Originally posted here: https://qr.ae/TWyQo7 Aug 24, 2019)

संस्कृतसाहित्ये परिहासाः

यदि भवन्तः मन्यन्ते संस्कृतभाषा केवलं अतिगम्भीरविषयानामेव व्यक्तकरणे उपयुक्ता इति, न साधु मतं भवद्भिः ।
हास्यकाव्यानि, हास्यनाटकानि बहूनि सन्ति । अपि चाटुपद्यानां तु महाभण्डार एवास्ति । हास्यसाहित्यं यावत्पर्यन्तं व्युत्पाद्यते भाषायां, तावत्कालं भाषा जनानां जिह्वासु संचरन्ती आसीदिति निश्चयेन ज्ञायते ।
अधः प्रस्तूयमानाः हास्यपङ्क्तयः महावेदाचार्य श्रीमत्सायणाचार्यस्य कस्मिंश्चद् ग्रन्थे आयान्ति —
गृध्री गृध्रं पृच्छति, “पते! कथमद्य नास्माकं श्मशाने धूम उदेति?”
गृध्रः प्रतिवदति, “प्रायः अद्यास्माकं वैद्यः पार्श्वग्रामं गतः !”
:-) lol

(Originally posted here: https://qr.ae/TWrj99 Aug 22, 2019)

हारो नारोपितः कण्ठे

“हारो नारोपितः कण्ठे मया विश्लेषभीरुणा ।
इदानीमावयोर्मध्ये सरित्सागरपर्वताः ॥”
अयं श्लोकः कस्मादुद्धृत इति स्पष्टतया न जाने । विद्वान् श्री शतावधानी गणेश महोदयस्य कस्मिंश्चित् प्रवचने श्रुतमिति स्मृतं यदयं श्लोकः हनूमन्नाटके आयाति इति ।
सन्दर्भः रामस्य सीतावियोगं प्रति दुःखप्रकटनम् । पूर्वं यदा सीता रामेण सहासीत्, तदा रामः कण्ठे कमपि हारमपि न धारयति स्म, किमर्थं, आलिङ्गने तिलमात्रमपि तयोर्मध्ये विश्लेषणं मा भूदिति । इदानीं रावणापहरणानन्तरं तु हारस्तत्र तिष्ठतु, सरितः, सागरः, पर्वता एव सन्त्यावयोर्मध्ये इत्यतिरमणीया ध्वनिरत्र सृष्टा ।
शास्त्रीयरीत्या अत्र “ध्वन्यालोक” प्रणेत्रा श्रीमदानन्दवर्धनाचार्येण ध्वनिसिद्धान्तः प्रयुज्यते । तत्पश्चात् सन्त्यनेका अलङ्काराः यथा - अनुप्रासः, श्लेषः, इत्यादि ।

(Originally posted here: https://qr.ae/TWyeCd Aug 29, 2019)

Sāyaṇācārya: Part 1 -- His life and work

Sāyaṇācārya is a unique personality in India's history, and as equally unique as his older brother Mādhavācārya, who was better known as Svāmī Vidyāraṇya of the famous Śṛṅgerī Maṭha. These brothers, who lived in the 14th century CE, together can very aptly be called India's Yuga Puruṣas (millenial men) of the last 1000 years - such is the significance and force of their life's work. 

The all-roundedness of their multifaceted contribution to India's cultural, religious, social, political, geographical and civilizational continuity is unmatched in the entire history of India considering the extremely adverse and hostile situation of their era. 


If we were to look back at India's long and ancient history, we would find probably one or two other such gigantic personalities who can lay claim to the title of Yuga Puruṣa. One is Kṛṣṇa Vāsudeva from the 2nd millenium BCE, and the other is Kauṭilya Cāṇakya from the 1st millenium BCE. Both these men are well-known for their multifaceted contribution to India's civilization. However, I dare say that the difficulties and adversities faced by these two men are trivial in comparison to those faced by Sāyaṇa and Vidyāraṇya. 


From ancient times down to the 1st millenium CE, India was at the peak of its civilizational glory. Its borders were secure, its economy prosperous, its culture vibrant and flourishing, its philosophical and spiritual traditions shining like a beacon of enlightenment for the whole world. Its ancient universities were thronged by foreign students from far and wide, just as students today throng to the American universities. 


The obstacles that Kṛṣṇa Vāsudeva overcame in his time were largely internal and benign to India's civilization. The obstacles that Kauṭilya Cāṇakya overcame in his time were foreign, but they were so minor in comparison to the strength and solidarity still pervasive in the civilization of the time. 


The obstacles that Sāyaṇa and Vidyāraṇya faced in their time were foreign and brutal, of monstrous and barbaric proportions never before seen in India's long civilization. These obstacles were of the character of ferocious and unrelenting attack by the armies of Muslim invaders who were having a field day, easily destroying Hindu kingdoms and decimating India's glorious civilization. 


At such a weakened, chaotic and calamitous time, Sāyaṇa and Vidyāraṇya were pivotal in organizing and guiding a powerful resistance to the advance of Islam in southern India. The final form of this resistance is very well-known as the Vijayanagara empire, which flourished under the dharmarājya of kings Harihara and Bukkarāya at its inception, and then later by their equally capable brothers Kampaṇa, Muddappa and Mārappa, as well as the second generation king Kumāra Kampaṇa who freed the Tamil country from brutal Muslim rule (the contemporaneous account of the liberation of Madurai is the Sanskrit work Madhurāvijayam written by his queen Gaṅgādevī). I shall not dwell too much into the glories of the Vijayanagara empire, as it has already been admirably and famously described by foreign travelers of the era and by later historians and history buffs. In summary, the Vijayanagara empire brought back the ancient glory of Indian Hindu civilization and preserved Hinduism in south India in a time of ferocious and predatory Islamic invasions in the rest of India.


One important point to note is that the founding kings of Vijayanagara, Harihara and Bukkarāya, whom Svāmī Vidyāraṇya consulted with and chose to lead the new kingdom, were neither Brahmins nor Kshatriyas. They were from the caste of Kannada Vokkaligas, traditionally Kurubas, or shepherds. This is very significant for the present-day social justice warriors to remember when they incessantly and ignorantly rant about the oppression of the caste system. To Sāyaṇa and Vidyāraṇya, who were Brahmins by birth, no other two people were more capable than Harihara and Bukkarāya to lead this new Hindu kingdom. This also has exact parallels with Kauṭilya Cāṇakya choosing the "low caste" Candragupta Maurya to be the king. So much for caste discrimination!

The achievements of the Vijayanagara empire are unmatched by any other medieval kingdom, be it the Maratha empire or the Sikh empire. The reason is that in the 14th century, the Hindu kingdoms were still shell-shocked by the brutality and ferocity of the Muslim invasions, and were utterly scattered and clueless as to how to re-organize themselves and stay alive, much less put up a fight. One after another, the Hindu kingdoms were falling like flies in the face of the Muslim invasions. At such a time, the Vijayanagara empire is truly a visionary and courageous idea that was never tried before in India's history. The crux of this idea was to unite all the fallen and weak kingdoms under the umbrella of the Vijayanagara rule so that a single combined effort would potentially be able to resist the invasions and sustain Hindu civilization. The founding team of the Vijayanagara empire were the first to recognize the threat of Islamic imperialism to Hindu civilization and respond in a systematic, strategic and intelligent manner. So the founders of the Vijayanagara empire were true pioneers of their time. 


It is highly regrettable that today's Indian leaders have forgotten the lessons from Vijayanagara, just as the kings of early centuries CE forgot the lessons from Kauṭilya Cāṇakya. It is also regrettable that the leaders of India's freedom movement of the late 19th and early 20th centuries did not have the same wholistic integral Vedic vision of Sāyaṇa and Vidyāraṇya.


After 350 years of glorious rule, when the Vijayanagara empire also collapsed due to several reasons, in the 17th century, its political, administrative and military organization was an inspiration for the great Shivaji in his establishment of the Maratha empire.  


Thus was the inimitable and unreplicable contribution of Sāyaṇa and Vidyāraṇya to the resurgence and revival of India's native civilization through pioneering work in the arena of politics, administration and statesmanship. 


Even more remarkable is the fact that after devoting their most energetic and youthful decades to the materialistic well-being of Hindu civilization, the two brothers went on to make seminal contributions to the spiritual well-being of Hindu civilization --


Svāmī Vidyāraṇya became the pontiff of the Śṛṅgerī Maṭha that was established by the Ādi Śaṅkarācārya in the 7th century CE. Under his leadership, the monastery started keeping accurate historical records that have been indispensable for understanding the history of not only the monastery but also the social and political climate through the centuries. Further, he authored several highly regarded and authoritative works on Advaita philosophy. The most famous work, the Pañcadaśī, is a very unique treatise that explains Advaita through the medium of worldly areas of interest such as painting, music, dance and drama. This is, again in his own style, inimitable because the typical saṃnyāsī is advised or is under the impression that monkhood means the complete renunciation of, and aversion to, worldly matters. Whereas the true saṃnyāsī is enlightened to see the whole world through Advaita.  


Sāyaṇācārya contributed in another crucial area of spirituality and religion, the Vedas. We shall take a deeper look into this in Part 2.  

Sāyaṇācārya: Part 2 -- The unfair criticism of his Vedic commentaries

Part 1 talked about the incredible contributions of the great Sāyaṇācārya in the realm of worldly affairs. Here we shall look at his contribution to religion and spirituality.

His greatest contribution to Hinduism is the publishing of the complete commentaries on all extant Vedic scriptures. One can grasp the immensity and scope of this undertaking only if one has knowledge of the vastness of the ocean that is the Vedic corpus.

The modern printed books of the entire Vedic corpus probably run into several tens of thousands of pages of fine print. Now add to this enormity the fact that all this literature was orally transmitted even in the time of Sāyaṇācārya, the 14th century CE. Even if we concede the fact that there were written manuscripts of all these texts, it is not an easy task by the longest stretch of imagination to organize, edit and publish authentic commentaries on every single text.

In fact, that is precisely what Sāyaṇācārya accomplished. We know from other writings that he had assembled under his editorship a team of the best Vedic scholars of his day. This is another example of the pioneering work done in the Vijayanagara empire. Never before in the history of India, had any scholars undertaken such a systematic project of such huge scale. Never before had there been such a collaboration among scholars towards a common goal. We do not know the names of the scholars who contributed, but such is the selflessness, magnanimity and commitment to a higher cause that is seen in this project.

Sāyaṇācārya's Vedic commentaries became the standard across all of India for centuries to come. Even the early European Indologists who came to India interested in studying Vedas (either genuinely or with an agenda) had to rely on Sāyaṇācārya's commentaries. It is a different matter that later European "scholars" abandoned Sāyaṇācārya and went off interpreting the Vedas based on their own sinister agendas. In any case, there is no other traditional, complete and authentic commentary on the Vedas today. It is no exaggeration to say that the Vedic texts have survived through the centuries to come down to us only because of Sāyaṇācārya's massive project.

Keeping all the above in mind, we should look at some criticisms of the interpretation of Sāyaṇa by some recent thinkers of the 19th and 20th centuries. The foremost of these thinkers is Aurobindo.

There is no doubt that Aurobindo was a great thinker and activist who was influential in the arenas of social, political and cultural problems faced by India under British rule. There is much more that I agree with Aurobindo on, than disagree. However, I disagree with his interpretation of the Vedas. He has clearly departed from tradition in his unique and strange ideas such as 'Super Mind' and his very unnatural and ill-suited insertion of modern "new age" psychological symbolism in the Vedic deities. He says that Agni represents the "will" and so on. We find no support for such interpretations in tradition.

Furthermore, he accuses Sāyaṇācārya of ignoring, or even obfuscating, the spiritual interpretation and focusing entirely on the ritualistic interpretation of the Vedas, and especially of the Rig Veda. Several other such thinkers of modern India reject Sāyaṇācārya along the same lines. I come across many modern Hindus who would rather trust and believe Aurobindo over Sāyaṇācārya or other traditional scholars.

To all this, my reply is that present-day Hindus, or even Hindus of the 19th century (which include Aurobindo) are much further away from authentic Vedic tradition and understanding than Hindus of the 14th century. That was a time when Hinduism was still standing on its own feet, unsullied by foreign interventions into the Hindu mind. Obviously, the further back we go in history, the closer we get to authentic understanding and practice of Vedic traditions. Even in the 14th century, the system of traditional Vedic education was unbroken and very much alive. In comparison, in the 19th century that system had already suffered severely due to British intervention.

When we further ascertain the fact that resurgence thinkers such as Aurobindo, Gandhi, Tilak, Swami Vivekananda and others had had a strictly British education and no traditional Vedic education, it becomes harder and harder to trust these thinkers when it comes to authentic understanding of the deepest topics of Vedic knowledge. Sure, they were better-informed about Hindu philosophy, especially Vedanta, than the average Hindu. However, "popular" Vedanta is still far away from "technical" Vedanta that is taught traditionally in a Vedic school.

We must further endeavor to understand what the Vedas meant to Hindus prior to the modern period. The Vedas were considered the fount of all knowledge, and they were the basis of Dharma. As the Manu Smṛti says, "वेदोऽखिलो धर्ममूलम् -- vedo'khilo dharmamūlam". Dharma was much more comprehensive than the modern understanding of "spirituality". Dharma defined society, it defined codes of conduct, it defined culture and civilization. The performance of the sacred ritual of yajña was an integral part of observance of Dharma and spiritual advancement. The ritual of yajña had a highly symbolic and spiritual original meaning which is evident in the study of the Brāhmaṇa texts of the Vedas. 

The Vedas embody a wholistic and integral view and observance of life, where there is no demarcation between mundane and what modern Hindus understand by "spirituality". Every aspect of life is important and has its place and significance in the spiritual advancement of an individual. Keeping this in mind, it becomes clear why tradition does not fall into the narrow and shallow pit of lop-sided "spirituality" in complete rejection of, or apathy towards, this wholistic integral vision of life. 


The inherent pitfall of "spiritualizing" everything is that it is very easy to insert and force a "spiritual" symbolism into anything. Our speech is full of suggestive and interpretive nuances that can all be forced into "spiritual" meanings. However, spirituality does not exist in a vacuum. It needs the structure of society, culture, religion and rituals. Spirituality comes to life only within rituals. When enacting the physical aspects of a ritual, if one is cognizant of the inner meaning of the ritual, or the connecting link between the human world and the rest of the universe, that is the means of internalizing the equivalence or identity between our individual existence and the universal existence. In other words, "spirituality" is "sublimated ritual".


This above point is completely missed in the writings of Aurobindo or other such thinkers.


In this matter, I would trust the philosopher and art historian Ananda K. Coomaraswamy over others. He stays true to traditional interpretation while interlinking the various mantras brilliantly to bring out deep insights into Vedic metaphysics. 


The wholistic integral vision of the Vedas is kept alive in tradition, to which Sāyaṇācārya belongs. His Vedic commentaries are appropriate to the context of each mantra. As Yāskācārya the traditional author of the Niruktam says, "एवमुच्चावचैरभिप्रायै ऋषीणां मन्त्रदृष्टयो भवन्ति -- evam uccāvacair abhiprāyaih ṛṣīṇāṃ mantradṛṣṭayo bhavanti". The vision of the rishis is inspired by various aspects of the universe. Hence, every mantra is unique in its context and intent. 


To twist the evident meaning of the mantra in order to force a "spiritual" or psychological or some other interpretation into it, is tantamount to insulting the rishi who envisioned the mantra. It is as good as saying that we know better than the rishi himself what his own intent was.


There is no doubt that the Vedic mantras have a lot of intricate and esoteric symbolism. However, tradition that has been passed down through the millenia from the time of the rishis themselves, knows best the symbolism hidden in mantras. Tradition knows best whether a mantra's meaning is simple and straightforward or whether the rishi intended it to be a symbolism to express a deeper truth. Just because a mantra's meaning turns out to be simple, does not mean that the mantra has no significance. There is a reason why the mantra is in the Veda. 


To conclude, let me provide a solid example of a mantra where Sāyaṇācārya himself does not hold back from giving a fully "spiritual" interpretation. It is as though all of Vedanta is encapsulated in this one mantra. This is proof to show that Sāyaṇācārya was fully aware of the spiritual symbolism in the Vedic mantras, and he was not an ignorant "ritualist".


Rig Veda 3.26.7:

अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् ।
अर्कस्त्रिधातू रजसो विमानो अजस्रो घर्मो हविरस्मि नाम ॥

agnirasmi janmanā jātavedā ghṛtaṃ me cakṣuramṛtaṃ ma āsan
arkastridhātū rajaso vimāno ajasro gharmo havirasmi nāma

Every mantra is traditionally assigned a rishi, a deity and a meter. This mantra's rishi is Brahman! The mantra's deity is Agni Parabrahman!

Here's is Sāyaṇācārya's commentary:

साक्षात्कृतपरतत्त्वरूपः अग्निद्व्ृचेन स्वात्मनः सर्वात्मकत्वानुभवमाविष्करोति । हे कुशिकाः । भोक्तृभोग्यभावेन द्विविधं हीदं सर्वं जगत् । "एतावद्वा इदमन्नं चैवान्नादश्च सोमो एवान्नमग्निरन्नादः" (बृ उ १.४.६) इति श्रुतेः । तत्र सकलभोक्तृवर्गरूपेणान्नादोऽग्निः । स च अग्निवाय्वादित्यभेदेन त्रेधा भूत्वा पृथिव्यन्तरिक्षद्युलोकानधितिष्ठति । तदुक्तं वाजसनेयके -- "स त्रेधात्मानं व्यभजत । आदित्यं तृतीयं वायुं तृतीयम्" (बृ उ १.२.३) इति । तत्र सः अग्निः जन्मना एव जातवेदाः अस्मि । श्रवणमननादिसाधननिरपेक्षेण स्वभावत एव साक्षात्कृतपरतत्त्वस्वरूपोऽस्मि । घृतं मे चक्षुः । यदेतत् विश्वस्य विभासकं मम स्वभावभूतप्रकाशात्मकं चक्षुस्तद्घृतम् । इदानीमत्यन्तं दीप्तम् । यदेतत् अमृतं कर्मफलं दिव्यादिव्यविविधविषयोपभोगात्मकं तत् मे मम आसन् आस्ये वर्तते । सकलभोक्तृवर्गात्मना स्वयमेवावस्थानात् । एवं स्वात्मनः पृथिव्यधिष्ठातृरूपतामभिधाय वाय्वात्मनान्तरिक्षाधिष्ठातृतामाह । अर्कः जगत्स्रष्टा प्राणः । "सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वम्" (श ब्रा १०.६.५) इति श्रुतेः ।स प्राणोऽहं त्रिधातुः । त्रेधात्मानं विभज्य तत्र वाय्वात्मना रजसः अन्तरिक्षस्य विमानः विमाता अधिष्ठाता अस्मि । तथादित्यरूपेण द्युलोकाधिष्ठातृतामाह । अजस्रो घर्मः इति । अजस्रोऽनुपक्षीणो घर्मः प्रकाशात्मा द्युलोकाधिष्ठाता आदित्योऽहमस्मि । एवं भोक्तृरूपमात्मनोऽनुसंधाय भोग्यरूपतामप्यनुसंधत्ते । यत् हविः भोग्यं प्रसिद्धमस्ति तदप्यहमेव अस्मि । किंच जन्मना उत्पत्त्या जातवेदा जातप्रज्ञोऽस्मि । उत्पत्तिक्षणे एव सर्वज्ञोऽहमस्मि । अथवा जातं सर्वं स्वात्मरूपतया वेत्तीति जातवेदाः । सर्वात्मक इत्यर्थः । तदनेनाग्नेः सर्वात्मकत्वप्रतिपादनेन परब्रह्मत्वमुक्तं भवति ।

sākṣātkṛtaparatattvarūpaḥ agnidvṛcena svātmanaḥ sarvātmakatvānubhavamāviṣkaroti । he kuśikāḥ । bhoktṛbhogyabhāvena dvividhaṃ hīdaṃ sarvaṃ jagat । "etāvadvā idamannaṃ caivānnādaśca somo evānnamagnirannādaḥ" (bṛ u 1.4.6) iti śruteḥ । tatra sakalabhoktṛvargarūpeṇānnādo'gniḥ । sa ca agnivāyvādityabhedena tredhā bhūtvā pṛthivyantarikṣadyulokānadhitiṣṭhati । taduktaṃ vājasaneyake -- "sa tredhātmānaṃ vyabhajata । ādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam" (bṛ u 1.2.3) iti । tatra saḥ agniḥ janmanā eva jātavedāḥ asmi । śravaṇamananādisādhananirapekṣeṇa svabhāvata eva sākṣātkṛtaparatattvasvarūpo'smi । ghṛtaṃ me cakṣuḥ । yadetat viśvasya vibhāsakaṃ mama svabhāvabhūtaprakāśātmakaṃ cakṣustadghṛtam । idānīmatyantaṃ dīptam । yadetat amṛtaṃ karmaphalaṃ divyādivyavividhaviṣayopabhogātmakaṃ tat me mama āsan āsye vartate । sakalabhoktṛvargātmanā svayamevāvasthānāt । evaṃ svātmanaḥ pṛthīvyadhiṣṭhātṛrūpatāmabhidhāya vāyvātmanāntarikṣādhiṣṭhātṛtāmāha । arkaḥ jagatsraṣṭā prāṇaḥ । "so'rcannacarattasyārcata āpo'jāyantārcate vai me kamabhūditi tadevārkasyārkatvam" (śa brā 10.6.5) iti śruteḥ ।sa prāṇo'haṃ tridhātuḥ । tredhātmānaṃ vibhajya tatra vāyvātmanā rajasaḥ antarikṣasya vimānaḥ vimātā adhiṣṭhātā asmi । tathādityarūpeṇa dyulokādhiṣṭhātṛtāmāha । ajasro gharmaḥ iti । ajasro'nupakṣīṇo gharmaḥ prakāśātmā dyulokādhiṣṭhātā ādityo'hamasmi । evaṃ bhoktṛrūpamātmano'nusaṃdhāya bhogyarūpatāmapyanusaṃdhatte । yat haviḥ bhogyaṃ prasiddhamasti tadapyahameva asmi । kiṃca janmanā utpattyā jātavedā jātaprajño'smi । utpattikṣaṇe eva sarvajño'hamasmi । athavā jātaṃ sarvaṃ svātmarūpatayā vettīti jātavedāḥ । sarvātmaka ityarthaḥ । tadanenāgneḥ sarvātmakatvapratipādanena parabrahmatvamuktaṃ bhavati ।

Having directly experienced the Ultimate Reality, the rishi declares through the medium of Agni that he is identical to the universal reality. This entire existence is of the two-fold nature of "consumer" and "consumed". As the Veda itself says (Br. Up. 1.4.6): "Only this much is all this-- food and eater. Soma is verily the food and Agni is the eater". There Agni is the form of the category of all consumers. He pervades the Earth, Atmosphere and Heaven in the form of Agni, Vāyu and Āditya. As the Vedic text (Br. Up. 1.2.3) says: "He divided himself three ways, one third as Āditya and one third as Vāyu." Now I am this Agni "Jātavedā" because by my own nature I have realized the Ultimate Reality without having to resort to methods such as study, meditation and others. "Ghṛtaṃ" is my eye -- this my self-illuminating light that shines on this universe, that is my eye. "Amṛtaṃ" is my mouth -- the result of deeds in the form of all kinds of intake (i.e. consumption through senses or mind or other ways) goes into my mouth. This is because I take the form of every consumer and enjoyer. Having thus expounded his nature as the foundation of the Earth, he now declares his nature as the foundation of the Atmosphere in the form of Vāyu. I am "Arka", the creator of the universe, Prāṇa. Then he declares his nature as the foundation of Heaven in the form of Āditya. I am "ajasro gharmaḥ" -- inexhaustible heat (sun) as Āditya. Having thus described his Self as the "consumer", he now declares his form as the "consumed". I am "Havis", the form of food. Now what is the meaning of "Jātavedā"? Omniscient by birth. Or else, he knows every existing thing as his own Self. In other words, the Universal Self. Thus by declaring Agni as the Universal Self, the state of Parabrahma is declared. 




Tuesday, August 20, 2019

संस्कृत-प्राकृतयोर्मध्ये वस्तुतः कियदन्तरमस्ति?

प्रायः आङ्ग्लशासनकालादारभ्याधुनापर्यन्तं ये भारते पण्डितंमन्यमानाः बुद्धिजीवयः आसन् सन्ति च, तेषां पाश्चात्यदुःसिद्धान्तगतानुगतिकानां “अन्धेन नीयमाना यथान्धाः” इत्युपनिषद्वाङ्निदर्शनरूपाणामपसिद्धान्तानामनुसारेण, “संस्कृतभाषा” इति तु केवलं ब्राह्मणानां गुह्यभाषा एव, न तु सर्वैरुपयुक्ता सार्वजनिका व्यावहारिकी भाषा । अपि च एतैरेव भ्रान्तिमद्भिर्वामपन्थिभिर्बालैर्वराकैर्कुटिलाचारैः इदमपि कथितं — ब्राह्मणेतरैः सर्वजनैः काचित् संस्कृतभाषायाः अत्यन्तविरुद्धा चासम्बद्धा च “प्राकृतभाषा” इति भाषिताभवदिति ।
सुसंमूढैरेतैः बुद्धिजीविभिः— “ब्राह्मणाः उद्देश्यपूर्वकं परस्परं मिलित्वा कपटबुद्ध्या सर्वं ज्ञानं ब्राह्मणेतरेभ्यः गोप्तुं सर्वान् ग्रन्थान् कस्यांश्चित् कृत्रिमायां “संस्कृतभाषा” इत्येतस्यां निबबन्धुः”—इत्यपि निराधारं निर्लज्जया कथितम् । अन्यस्तु सुप्रसिद्धो वा कुप्रसिद्धो वा असत्सिद्धान्तः “आर्याणामाक्रमणम्” इति। अयं वदति यत् भारतस्य “मूलवासिनः” वैदिकेतरं कंचिद्धर्ममनुसरन्त आसन्, तेषां भाषा च “आदिद्रविड” इति काचिदासीदिति च। तर्हि आर्याणामाक्रमणात् एतेषामादिवासिनां संस्कृतिर्विनष्टा तदनन्तरं आर्याणां समाजे तान् आदिवासिनामवशेषान् शूद्रान्त्यजादिरूपेण व्यवस्थाप्य तेषामुपरि ब्राह्मणाद्युच्चजातीयाः बहवोऽत्याचाराः कृतवन्तः इत्यादि निराधाराश्चोपपत्तिरहिताश्च दुष्प्रचाराः कृताः । प्रथमस्तु “आर्याः” इति केऽपि जनविशेषाः नैवासन्निति तु सुसिद्धं । द्वितीयः, एतेषां मिथ्याजनानां याः ग्रन्थाः सन्ति “वेदाः” नाम, तेषु वेदेषु नैकमपि पदमस्ति यत् सन्देहमात्रमपि आर्याक्रमणविचारं प्रतिपादयति ।
एतादृशानामसत्यप्रचारैः बहुदशकेभ्यः भारतीयानां मनांसि परस्परं गरितानि भवन्त एव सन्ति बहुविधविघटनं चातिवेगेन भवन्नस्ति । अस्यैकमुदाहरणं — औत्तरदाक्षिणात्यानां मध्ये विघटनं यतः द्रविडदेशे उत्पन्नं “द्रविडीयत्व”आन्दोलनं त्वनुपपत्तीनामुपरि निर्मितमस्ति । अस्यानुसारेण, केवलं द्रविडदेशीया एव भारतस्य मूलवासिनः, औत्तरास्तु वैदेशिकाः यत एव ते कल्पितवैदेशिकभाषां संस्कृतं भाषन्ते । अन्यमुदाहरणं उच्चनीचजातीयानां कलहस्तु प्रसिद्ध एव । तत्रापि उच्चजातीयाः संस्कृतमवदन्, नीचजातीयाः प्राकृतमवदन्, तर्हि नीचजातीया “मूलवासिनः”, उच्चजातीयाः बाह्याः आगत्य शासितारः अभवन्नित्यादि बालिशाः वचः । परं अपरकालेषु व्युत्पन्नः जातिविभागः वेदेष्वनुपलब्धः । तर्हि न तु वैदिकव्यवस्था निन्द्या, वस्तुतः जना एव निन्द्याः ।
उपरिदीर्घप्रस्तावनानन्तरं, सद्यः एकं दुष्प्रचारं निवारयितुं प्रयतिष्ये — संस्कृतप्राकृतयोरन्तरं नास्तीति ।
वेदकालादारभ्य पाणिनिकालपूर्वं यावत् या भाषा भाषितासीत्, सा तु वेदस्यैव भाषा । अस्य प्रमाणं तु वेदे उपलब्धाः बहवः दैनन्दिनोपयुक्तानि पदानि —यदि वेदभाषा सार्वजनिका व्यावहारिकी भाषा न स्यात्, तानि पदानि न स्युः । तर्हि सा भाषा “प्राकृता” अर्थात् प्रकृतितः, नैसर्गिकरीत्या, अकृत्रिमा भूत्वा सर्वजनैः भाषिता एव इत्यत्र नास्ति संशयः । तदनन्तरं भगवतः पाणिनेर्काले वेदभाषा प्राचीना आसीत्, परं तस्या एव दुहिता तात्कालिका “भाषा” आसीत् । केवलं “भाषा” इत्येवाभिज्ञाता । इदं भगवतो पाणिनेरष्टाध्याय्यामेव निगदितं । तत्र भगवान् वेदभाषां “वेदे”, “छन्दसि” इति सूचयति, अपि च तात्कालिकां भाषां तु केवलं “भाषा” इत्येव सूचयति । ततो ज्ञातं यदभाषितवेदभाषायाः भाषितभाषायाश्च संबन्धः मातृदुहितृवदेवेति, अथवा नैक एव व्याकरणग्रन्थः द्वाभ्यामप्यनुसन्दधातुं शक्नोति । भगवतः पाणिनेर्महत्तपःप्रभावात् पूर्वं या वैविध्यमयी बहुशब्दधातुरूपसाध्या प्राकृता भाषा संस्कारापन्ना कतिपयनिर्धारितरूपमयी “संस्कृता” इति नामाङ्किता ।
यतो ह्येव वेदेऽपि बहूनि पदानि लभ्यन्ते यानि अपाणिनीयानीति कथितुं शक्नुवन्ति । उदाहरणानि—
  • मूलरूपं — “कुटस्य”; संस्कृतनिरुक्तं — “कृतस्य”
  • मूलरूपं — “कीकटाः”; संस्कृतनिरुक्तं — “किं कृताः”
  • मूलरूपं — “वालः”; संस्कृतनिरुक्तं — “वारः”
अपि च, या पाणिनिसंस्कृता भाषा अधुना वयमुपयुज्मः, तस्यामपि बहूनि पदानि “प्राकृत”रूपेष्वेव सन्ति । यथा — “भट्टः” इत्यस्य पदस्य सुसंस्कृतं रूपं तु “भर्त्ता” इति । परं संस्कृते अपि तदसंस्कृतं रूपमेवोपयुक्तं भवति । तदेव वैचित्र्यं — न “संस्कृतप्राकृत” इति नामधेययोः भाषयोर्मध्ये तथ्यतः भेदोऽस्ति । पुनः, यदि प्रतिपादयामो एतयोर्मध्ये भेदः, प्राकृतपदानां निरुक्तं कथं क्रियते इति चिन्तितव्यं, यतः उदाहरणाय “धम्मः” इति पदस्य “धर्मः धारणात् धारयतीति वा” इति संस्कृतनिरुक्तमेव दातव्यं । तर्हि प्राकृतभाषायाः पृथक्त्वं कथं सम्पद्यते? नैव ।