Thursday, April 9, 2020

शङ्करः लोकशङ्करः (श्रीमदादिशङ्कराचार्यानामुपरि)

शङ्करभगवत्पादानां विषये किञ्चिल्लेखनीयमिति मनोऽकरोत् :)

तादृशां महामहिमानां विषये लिखितुं तु सर्वथानर्होऽहम् । तथापि स्वाध्यायसाधनापूजनरूपेषु वीक्ष्येदम् यथामति यथाज्ञानं लघुप्रबन्धम् प्रस्तूयते । कतिपयमासानन्तरं संस्कृतभाषायां वाक्प्रचलति, तर्हि प्रायः न पूर्वकृतप्रबन्धवत् सौष्ठवम् गृह्णातीदम् ।

शङ्कराचार्याणां जीवनचरित्रं तु केवलं दन्तकथासु गुरुपरम्पराविश्वासेषु प्रशंसाग्रन्थेषु च विद्यते । तेषु “शङ्करदिग्विजयम्” इत्येतस्मिन् प्रायेणान्येभ्य अधिकतरं विस्ताराः प्राप्यन्ते । तेष्वपि कियान् भागः साक्षात्सत्यमित्यवधारयितुमशक्यम् । केषांचनानुसारेण शङ्करः अणिमाद्यष्टसिद्धीनवाप्य जनानामुपरि ताः प्रयुक्तवानिति श्रूयते, परं न तस्य निश्चितसत्यत्वं प्रतिपादयितुं शक्यम् । तर्हि केवलं सुप्रसिद्धघटनाः अत्रोल्लिख्यन्ते ।

सामान्यदन्तकथानुसारेण, शङ्करः बाल्य एव सुतीक्ष्णमतिः सन् सर्वे वेदाः सर्वाणि च शास्त्राणि अन्तर्गमयित्वा अत्यन्तमेधावी आसीत् । सः परमसाम्प्रदायिकानां नम्बूतिरिब्राह्मणानां संन्यासवर्ज्यानां कुटुम्बे जज्ञे । तर्हि शङ्करः स्वपरिवारसम्प्रदायं विरुध्य संन्यासं स्वीचकार । प्रायेणैषा ह्येव घटना संकेतरूपेण कथिता यत् स एकदा नद्यां नक्राक्रान्तः सन् केवलं तदा मुक्तोऽभवद्यदा स्वमातुः संन्यासस्वीकारस्यानुमतिं प्राप्तवान् ।

परम्परानुसारेण स अष्टमे वर्षे संन्यासं स्वीकृत्य द्वात्रिंशत्तमे वर्षे परमपदं प्राप्तवान्, तेन चतुर्विंशतिवर्षाणि तावत्यल्पावधौ मानवानूह्यकर्माणि साधितवान्, तस्मादेव तं साक्षाद्दक्षिणामूर्तेरवतारं मन्यामहे । पश्यामश्चेत्, प्रत्येकविषये अमानुषसाधनानि कृतवान् ।

सिद्धान्ते त्वप्रतिममद्वैतं केवलतर्कशुद्धरीत्या प्रतिपेदे प्रचचार च । एतस्मात्पूर्वं तु बादरायणादाभ्यानेका आचार्याः उपनिषद्दर्शनं सुव्यवस्थितरीत्या प्रतिपादयितुमयतन्त । तेषु प्रयत्नेषु ब्रह्मसूत्रनिबन्धस्तु सर्वोत्कृष्ट इत्यत्र न कोऽपि संशयः । परं तत्र वेदवाक्यविश्वासोपरि सिद्धान्तः प्रस्तुतः । तन्न नास्तिकेभ्यः प्रत्यायकं, वेदवाक्यानादरत्वात् । तर्हि शङ्करः प्रथमं शुद्धतर्कप्रतिपादनेन सिद्धान्तं सुसंस्थाप्य, तदनन्तरं वेदोपनिषदृषिदर्शनस्य चात्मानुभवस्य च शुद्धतर्कप्रतिपाद्येन सह सुसंवादित्वं दर्शितवान् । तस्य ब्रह्मसूत्रस्योपरि शारीरकभाष्यस्य प्रधानभूतं वाक्यमिदं — “य एव हि निराकर्ता तस्यात्मत्वात्” इति तर्केण यदि पश्यामः स्वस्यैवास्तित्वं निराकर्तुं सर्वोऽप्यशक्तः, तर्हि स्वस्यैवान्तस्तममस्तित्वमेव परमसाक्षी परमचेता परमानन्दी इत्यात्मन अपरोक्षानुभूतिः ब्रह्मसाक्षात्कारश्च ।

लौकिके तु सर्वप्रसिद्धं साक्षादमानुषकर्म तु प्राचीनभरतवर्षस्य चतुर्ष्वपि दिक्षु पर्यटनं च मठस्थापनं च । तस्मिन्नसौकर्ये काले पर्वत-नदी-वन-मृग-जनपदादि आपत्सु मध्ये एकाङ्गी सन् पदैव कथं स देशस्याद्यन्तं चचार इति तूहातीतमेव । परं यदि तस्य मनसि वैदिकधर्मानुशासितभारतस्यैक्यं सुस्पष्टं नासीत्, तर्हि नैव सः दक्षिणायां शृङ्गेर्यां, उदीच्यां बदरिकाश्रमे, प्राच्यां पुर्यां, प्रतीच्यां द्वारकायां समानमठानां स्थापनं कुर्यात् । न वाप्येताः प्रदेशाः परस्परमज्ञाताः — अतिप्राचीनकालादेव वैदिकधर्मः एतेषु प्रदेशेषु जाज्वल्यमान आसीत् । तस्मादेव समानसंस्कृतिधर्मेषु तेषु विविधप्रदेशेषु वेदमूलस्यैव स्वसिद्धान्तस्य प्रचारः सुकर आसीत् । इदं आधुनिकपण्डितंमन्यमानानां पाश्चात्यदुःसिद्धान्तगतानुगतिकानां बुद्धिजीविभ्रान्तानां यदपमतोऽस्ति “भारतस्यैक्यं केवलं मुगलानां वाङ्ग्लानां वा शासने कृतं” इति, तमपमतं खण्डशः भिनत्ति ।

तत ऊर्ध्वं तेन षण्मतं च पञ्चायतनपूजाविधिं च स्थाप्य भारतस्य पुरातन वैदिकधर्मस्य च साम्प्रदायिकदेवतार्चनक्रमस्य च पुनरुत्थानं पुनरुज्जीवनं च कृतवान् । तस्माद् यद् बौद्धस्य जीवननिराकरणं च “सर्वं दुःखमयं” इत्याग्रहं चानुत्साहं चासीत्, तं निवार्य जीवनोल्लासं च सर्वतोमुखप्रगतिं च “सर्वस्मिन् ब्रह्मस्वरूप आनन्द एव” इत्याग्रहं स्थापितम् ।

बौद्धस्य ऐकान्तिकं दृष्टिकोणं निरस्य, वैदिकधर्मस्य वैश्विक समष्टिदृष्टिकोणस्य पुनःस्थापनं, प्रायेण शङ्करभगवत्पादानां यशस्तमा संसिद्धिरिति वक्तुं न कोऽप्यतिशयः ।

अत्राद्वैतसिद्धान्तस्य प्रति एकमन्यथाग्राहं निवारणीयम् । “ब्रह्म सत्यं जगन्मिथ्या” इति कथितकथनं कथञ्चिदप्यनुकूलसूत्रत्वेन साधु वासाधु वा प्रभूततया सर्वैरुपयुक्तं प्रतिभाति । न शङ्करेण क्वापि जगन्मिथ्येत्युक्तम् । तेन तु प्रज्ञानस्य विविधाः स्तराः प्रतिपादिताः यथा — प्रातिभासिकं, व्यावहारिकं, पारमार्थिकं — इति । पूर्वपूर्वादपरापरः स्तरः सत्यतरः, परं न कोऽपि स्तरः साक्षान्मिथ्या । तस्मिन् तस्मिन् स्तरे यदा स्थित्वा प्रज्ञानमनुभवति, स स स्तरः सर्वथा सत्यमेव ।

अस्याः भ्रान्तेः एकः दुष्परिणामः यद् व्यावहारिक-पारमार्थिक-स्तरयोरभेदत्वं मूढतया मन्यन्ते केचन प्राज्ञंमन्यमानाः । एतेषां सुसंमूढानां हिन्दूनामनुसारेण, यद्यपि सर्वं तद्ब्रह्मैव, तर्हि जगति व्यवहारसमयेऽपि सर्वे जनाः, सर्वे मताः, सर्वे मतानुयायिनः समानतयैव द्रष्टव्याः व्यवहार्याश्चेति । एतन्नाद्वैतसिद्धान्तः । यदि कश्चिन्मां हन्तुमुत्सुक आगच्छन्नस्ति, तर्हि सर्वसामर्थ्येन स्वरक्षणं कर्तुं मम जन्मसिद्धाधिकारोऽस्ति । स्वरक्षणसाधनं कदाचित् रिपुच्छेदनेन भवेत्, कदाचित् केवलं रोधनेन भवेत्, परं नैवाकर्मणा स्वरक्षणं सिध्यति । अत्र हिन्दूधर्मस्य शरीरमिति संकेतः । यदि कश्चिदाक्रामकः विदेशी मताभासः हिन्दूधर्मस्योपरि आघाताः वारंवारं कुर्वन्नेवास्ति (न केवलं भौतिकाघाताः, अपि तु सांस्कृतिकाः, जनसंख्याकाः, राजनैतिकाः, इत्यादि), तर्हि तमापत्कारकं रिपुं सकर्मकतया, बुद्धिमत्तया, रोधनं वा संहारो वा स्वधर्मकर्मानुष्ठानस्य प्रथमं पदम् ।

यदि शङ्करभगवत्पादानामेव चरितं पश्यामः, न सः केरलस्थे स्वगृहे एव स्थात्वा विचारितवान् — “अहो, सर्वं खल्विदं ब्रह्मैव, तर्हि सर्वं समानं, तर्हि ममाद्वैतप्रचारे वाप्रचारे वा, बौद्धस्य निरसने वानिरसने वा न किञ्चिदन्तरं वर्तते । अहमत्रैव किमप्यकुर्वन् तिष्ठामि” इति । सोऽतिदुष्करपरिश्रमेण सनातन वैदिकधर्मस्य संरक्षणमकरोत् । तत्त्वेवाद्वैतसिद्धान्तस्य प्रमाणभूतमनुष्ठानम् यद् व्यावहारिक-पारमार्थिक-स्तरयोरन्तरं सुसंज्ञात्वा सम्यगाचरणे प्रयोगः ।

श्रुति-स्मृति-पुराणानामालयं करुणालयं । नमामि भगवत्पादं शङ्करं लोकशङ्करम्

No comments:

Post a Comment