सुसंमूढैरेतैः बुद्धिजीविभिः— “ब्राह्मणाः उद्देश्यपूर्वकं परस्परं मिलित्वा कपटबुद्ध्या सर्वं ज्ञानं ब्राह्मणेतरेभ्यः गोप्तुं सर्वान् ग्रन्थान् कस्यांश्चित् कृत्रिमायां “संस्कृतभाषा” इत्येतस्यां निबबन्धुः”—इत्यपि निराधारं निर्लज्जया कथितम् । अन्यस्तु सुप्रसिद्धो वा कुप्रसिद्धो वा असत्सिद्धान्तः “आर्याणामाक्रमणम्” इति। अयं वदति यत् भारतस्य “मूलवासिनः” वैदिकेतरं कंचिद्धर्ममनुसरन्त आसन्, तेषां भाषा च “आदिद्रविड” इति काचिदासीदिति च। तर्हि आर्याणामाक्रमणात् एतेषामादिवासिनां संस्कृतिर्विनष्टा तदनन्तरं आर्याणां समाजे तान् आदिवासिनामवशेषान् शूद्रान्त्यजादिरूपेण व्यवस्थाप्य तेषामुपरि ब्राह्मणाद्युच्चजातीयाः बहवोऽत्याचाराः कृतवन्तः इत्यादि निराधाराश्चोपपत्तिरहिताश्च दुष्प्रचाराः कृताः । प्रथमस्तु “आर्याः” इति केऽपि जनविशेषाः नैवासन्निति तु सुसिद्धं । द्वितीयः, एतेषां मिथ्याजनानां याः ग्रन्थाः सन्ति “वेदाः” नाम, तेषु वेदेषु नैकमपि पदमस्ति यत् सन्देहमात्रमपि आर्याक्रमणविचारं प्रतिपादयति ।
एतादृशानामसत्यप्रचारैः बहुदशकेभ्यः भारतीयानां मनांसि परस्परं गरितानि भवन्त एव सन्ति बहुविधविघटनं चातिवेगेन भवन्नस्ति । अस्यैकमुदाहरणं — औत्तरदाक्षिणात्यानां मध्ये विघटनं यतः द्रविडदेशे उत्पन्नं “द्रविडीयत्व”आन्दोलनं त्वनुपपत्तीनामुपरि निर्मितमस्ति । अस्यानुसारेण, केवलं द्रविडदेशीया एव भारतस्य मूलवासिनः, औत्तरास्तु वैदेशिकाः यत एव ते कल्पितवैदेशिकभाषां संस्कृतं भाषन्ते । अन्यमुदाहरणं उच्चनीचजातीयानां कलहस्तु प्रसिद्ध एव । तत्रापि उच्चजातीयाः संस्कृतमवदन्, नीचजातीयाः प्राकृतमवदन्, तर्हि नीचजातीया “मूलवासिनः”, उच्चजातीयाः बाह्याः आगत्य शासितारः अभवन्नित्यादि बालिशाः वचः । परं अपरकालेषु व्युत्पन्नः जातिविभागः वेदेष्वनुपलब्धः । तर्हि न तु वैदिकव्यवस्था निन्द्या, वस्तुतः जना एव निन्द्याः ।
उपरिदीर्घप्रस्तावनानन्तरं, सद्यः एकं दुष्प्रचारं निवारयितुं प्रयतिष्ये — संस्कृतप्राकृतयोरन्तरं नास्तीति ।
वेदकालादारभ्य पाणिनिकालपूर्वं यावत् या भाषा भाषितासीत्, सा तु वेदस्यैव भाषा । अस्य प्रमाणं तु वेदे उपलब्धाः बहवः दैनन्दिनोपयुक्तानि पदानि —यदि वेदभाषा सार्वजनिका व्यावहारिकी भाषा न स्यात्, तानि पदानि न स्युः । तर्हि सा भाषा “प्राकृता” अर्थात् प्रकृतितः, नैसर्गिकरीत्या, अकृत्रिमा भूत्वा सर्वजनैः भाषिता एव इत्यत्र नास्ति संशयः । तदनन्तरं भगवतः पाणिनेर्काले वेदभाषा प्राचीना आसीत्, परं तस्या एव दुहिता तात्कालिका “भाषा” आसीत् । केवलं “भाषा” इत्येवाभिज्ञाता । इदं भगवतो पाणिनेरष्टाध्याय्यामेव निगदितं । तत्र भगवान् वेदभाषां “वेदे”, “छन्दसि” इति सूचयति, अपि च तात्कालिकां भाषां तु केवलं “भाषा” इत्येव सूचयति । ततो ज्ञातं यदभाषितवेदभाषायाः भाषितभाषायाश्च संबन्धः मातृदुहितृवदेवेति, अथवा नैक एव व्याकरणग्रन्थः द्वाभ्यामप्यनुसन्दधातुं शक्नोति । भगवतः पाणिनेर्महत्तपःप्रभावात् पूर्वं या वैविध्यमयी बहुशब्दधातुरूपसाध्या प्राकृता भाषा संस्कारापन्ना कतिपयनिर्धारितरूपमयी “संस्कृता” इति नामाङ्किता ।
यतो ह्येव वेदेऽपि बहूनि पदानि लभ्यन्ते यानि अपाणिनीयानीति कथितुं शक्नुवन्ति । उदाहरणानि—
- मूलरूपं — “कुटस्य”; संस्कृतनिरुक्तं — “कृतस्य”
- मूलरूपं — “कीकटाः”; संस्कृतनिरुक्तं — “किं कृताः”
- मूलरूपं — “वालः”; संस्कृतनिरुक्तं — “वारः”